________________
श्रीवरंगवती
कथा ॥४९॥
विस्मितश्चाऽभवत् सद्योऽष्टपूर्व विलोकनात् । नवीनं वस्तु सम्प्रेक्ष्य को न कौतु कितो भवेत् वीराणां योषिताश्चैव ब्राह्मणानाञ्च हत्यया । दुष्टकर्मभिरन्यैश्च निर्दयः शचरेश्वरः सर्वथा क्रूरभावेन सम्पश्यनिदमब्रवीत् । समीपस्थैकलुण्टाकं ततः स्वेष्टविनिर्णयात सर्वैरस्मामिरिष्टयर्थ दातव्यो यादृशो बलिः । देव्यै तथाविधं युग्मं तयैव प्रेषितं वरम् ततो देवीनवम्याच रात्रावेतत्प्रदास्यते । मिथुन बलिरूपेण रक्ष्यश्चातः प्रयत्नतः निशम्येदं वचस्तस्य चिन्ताऽमेयाऽभवध्धृदि " मृत्युभयं समुत्पन्नं किं भविष्पति हाऽधुना ?" लुण्टाकः सोऽग्रहीदाज्ञां नम्रतापूर्वकं ततः निन्ये गृह निजं तेन बद्धश्च मत्पतिर्दृढम् । कष्टं तथाविधं तस्य पश्यन्त्या मम चेतसि । संतापाग्निः समुत्सनः सकलेन्द्रियशोषका नताननाभुजङ्गीव गरुडाऽऽहृतभर्तृका । असह्यव्यथनेनाऽह-माक्रन्दं कर्तुमुद्यता विकीर्णकेशपाशापाऽ-श्रुप्रवाहं विमुञ्चती । मस्त्रियं तस्य बन्धं च समाश्लिक्षं सुदुःखिता मयोक्तं “दन्तिनं वन्य-माश्लिष्टां हस्तिनीमिव । नरोत्तमेन साकं मा-मप्येतेन वधान वै यतस्तत्पृष्टभागेन संश्लिष्टौ करपल्लवौ । आजानुलम्बमानौ च ममैवाऽऽलिंगनोचितो" एवमुक्त्वा च तं बन्ध-निर्मुक्तं कर्तुमुद्यता । तावत्तु तस्करेणाऽहं ताडिता क्रूरचेतसा
॥ १२९३ ॥ ॥१२९४॥ ॥ १२९५॥ ॥ १२९६॥ ।। १२९७ ॥ ॥ १२९८॥ ॥ १२९९ ॥
॥ १३०१ ॥ ॥ १३०२॥ ॥ १३०३ ॥ ॥१३०४॥
॥४९॥
For PrivateAnd Personale Only