________________
श्रीवरंगवती
कथा ॥४७॥
BEEXXKSEEDOSEXEXXEEEXXX
तेषामेकोऽवदचोरो विधात्रा या विनिर्मिता । नरनारीमयी सृष्टिस्तनोऽसन्तुष्टचेतसा
॥ १२४१ ॥ तां विनाश्य पुनर्युग्ममेतनिर्मितमस्ति वै । चन्द्राद्रात्रिस्ततश्चन्द्रस्तथेमावधिकप्रमो
॥ १२४२॥ तत्रापश्याव सयौ द्वौ स्वर्गिनारकयोरिव । हर्षग्लानिप्रदो यस्माद्दर्शने विस्मयस्तयोः
॥१२४३॥ आधे यतो महानन्दा जनास्तस्थुन यन्त्रिताः । अन्यस्मिंश्च निरानन्दाः कारायां यन्त्रिताः स्थिताः ॥१२४४ ॥ देवतामिथुनं भव्यमिव युग्मं नरस्त्रियोः । आनीतमिति संश्रुत्य दरीमागों महानपि
॥१२४५॥ द्रष्टुकाममहोत्साहैालवृद्धैर्विशेषतः । नारीगणैश्च सङ्कीणों बभूव क्षणमात्रतः
युग्मम् ॥१२४६ ॥ निर्विणचेतसावावां नीतावग्रे ततोबलात् । तदा कारास्थिता नार्यो विलापं कर्तुमुद्यताः ॥ १२४७॥ अस्मदीया इवतास्तु विलोक्याऽऽवां दयापराः । निजबालवदस्मासु स्नेहभावमदर्शयन्
॥ १२४८ ॥ ततो गुणप्रिया काचिल्लुण्टाकलीदमब्रवीत् । मत्प्रियं सुन्दराकारं समागच्छ मदन्तिकम्
॥१२४९ ॥ आवयो रक्षकः प्रोक्तस्तया चन्द्रसमाकृतिः । रोहिणीमिव नारी यः समादाय समागतः
॥ १२५० ॥ युवानमत्र तं यूयं स्थापयत क्षणं यतः । तस्करप्रमदानेत्र-व्रजः सफलतां व्रजेत
॥ १२५१॥ बजन्तं तं निरीक्ष्यैता-मोहिताः स्तेनयोषितः । दुःखार्ताः प्ररुदन्ति स वीक्ष्यैव तं मनोहरम् ॥ १२५२ ॥ एतदाचरण तासां विलोक्य दीनतामयम् । अस्ययाऽतिसन्तापात् क्रोधेन मे मनोध्दत
॥१२५३ ।।
3888SAEEEEEEXESKSEEKREEET
॥१७॥
For Private And Persone