SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीवरगवती कथा -४२ EXEXX www.kobatirth.org उपयुक्ते न यो मूढः स स्वयं गृहमागताम् । लक्ष्मीं साक्षातिरस्कृत्य तत्प्रभावं न बोधति सर्वस्वं जीवितस्यैव प्रियां रम्यां समागताम् । यो जहाति नरस्तस्य न सिद्ध्यति मनोरथः एतद्वचनमाकर्ण्य मत्प्रियो मामचीकथत् । यदि देशान्तरं यावस्तदा निर्विशता भवेत् निःशङ्कं मौदमापत्र सुखितौ च यथेच्छया । तदैवाऽऽवां मविष्यावो नान्योपायोऽस्ति कामिनि ! अपि च शृणु सखि ! विषयान्तरभ्रमिर्वै गुणचयमीप्सितमावहत्यवश्यम् । जनयति जनतां कलाप्रवीणां वितरति भाग्यपरीक्षणप्रसङ्गम् अवगणयति दुष्टवाक्प वपुरपि कष्टसहं दृढं तनोति । दिशति हि सदसद्विवेकबुद्धि नयति च नेत्रपथं सुभूमिभागान् मयोक्तश्च प्रियस्वामिन् ! स्वगृहं भाति दुःखदम् । त्वं गमिष्यसि यत्राह - मागमिष्यामि तत्र वै स्वमवेदविधायै तेनाऽनेकविधोक्तयः । विहिता मत्पुरः सम्य- गिच्छन्तीं तस्य समिधिम् निश्रयो मे दृढो जातस्तदा सोऽकथयन्मुदा । देशान्तरमिदानीं वै गन्तव्यं पङ्कजानने ! क्षणं विष्ठाऽध्वनीनानि साधनानि चिनोम्यहम् । पक्षहीनो यथा पक्षी ना तथा साधनैर्विना इत्युक्त्वोचितवस्तूनि सज्जीकर्तु स सत्वरम् । प्रासादाऽभ्यन्तरं प्राप निजकार्यचिकीर्षकः For Private And Personal Use Only ॥ १११४ ॥ ॥ १११५ ॥ ॥ १११६ ॥ ॥ १११७ ॥ ॥ १११८ ॥ ॥। १११९ ॥ ॥ ११२० ॥ ॥ ११२१ ॥ ॥ ११२२ ।। ॥ ११२३ ॥ ॥ ११२४ ॥ TEXES.2888888888888 Acharya Shri Kaassagarsun Gyanmandir ॥ ४५ ॥
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy