________________
भीतरंगवती
॥११॥
यदारभ्य शरापातैर्विद्धोऽनङ्गस्य मीलितुम् । ताश्चोत्सुकमना नास्ति ततः किञ्चित्सुखं मम ॥ १०८६॥ शरनिशि रमध्वं हि मां तु निद्रा प्रवाधते । इति च्छलेन मित्राणि व्यसृर्ज स्वैरकाम्यया
॥१०८७॥ तत्तु नैपुण्यमात्रं मे निबोध हितदायिनि ! | अभिप्रायो ममैवासीद्वस्तुतस्तद्विसर्जने
॥१०८८॥ युष्मत्प्रासादमासाद्य यथेच्छं क्रीडनेच्छया । चित्राण्यालोकितुं चैव मया चेतोहराणि वै
॥ १०८९॥ तथापि दर्शनेनैव तव भद्राशये मम । समुद्भुतप्रमोदेन शोको नष्टोऽतिहार्दिकः
॥१०९०॥ वद वं वल्लभाया मे वाचिकं किं त्वयाऽऽहतम् । कुशलोदन्तमावेद्य प्रसनं कुरु मानसम्
॥१०९१॥ सत्यवादीन सन्देश-वचनं किञ्चिदाहृतम् । त्वन्मनोऽभीष्टदा-सैव स्वयमत्र समागता
॥१०९२॥ पुनः साऽप्पत्रवीद्वाक्यं सख्यास्तु कुशलं परम् । तथैषा स्नेहमूढाऽस्ति तत्पाणिग्रहणं खया कर्तव्यमेव तत्क्षेम-मिच्छता प्रेमघारिणा । अब्धिमिवाऽऽपगा स्नेहा-दागता या स्वदन्तिकम् ॥१०९४॥ इति वाक्यामृतं पीत्वा सकलं मामकं वपुः । स्वेदबिन्दुसमाकीर्ण बभूव प्रेमसंभृतम्
॥ १०९५ ॥ निःसहा विनयाऽऽनम्रा प्रमोदावुप्लुताऽक्षिका । व्याकुला वेपमाना च प्राणमं स्वामिनः क्रमो ॥१०९६॥ क्षिप्रमेव सुरम्येण करेण स्नेहपूर्वकम् । उत्थाप्याऽहं समाश्लिष्टा वक्षसा स्वेन भूरिशः
॥१.९७॥ तस्यापि नेत्रयोरथुप्रवाहवावहन्मुदा । सोऽवादीच्छोकसंहत्रि ! केल्याणं सखि तेऽस्तुवै
॥१०९८॥ ततो मामेकरष्ट्येकाऽ-पश्यदानन्दिताऽऽननः । तन्मुखं कमलमाष्ट रमयेत्र कंजवासेव कंजमिमा मवेक्ष्यत ॥ १०९९ ॥
XXXXXXXXXXXXXXXXXXXX
॥११॥
For Private And Persone
n