SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra *888***88**8888888888888888 www.kobatirth.org पायान्याः प्रकुर्वाणो मां निरुध्य चिरं ततः । व्यसुंजडुकुच्छ्रेण तव प्रेमलतां स्मरन तत्प्रसादाद्वहिर्यान्त्या मयाऽऽकाशधरातलम् । एकीभूतमिव ज्ञातं स्नेहसम्बन्ध इशः विहाय त्वत्पितुर्ह सर्वत्र राजवर्त्मनि । तादृशो नाऽपरो भव्यः प्रासादो दृश्यते महान् इदानीमपि सा शोभा भव्यता सैव सत्कृतिः । साऽपूर्वा हृदि मे साक्षात् स्फुरत्येव पुनः पुनः त्वद्वल्लामातिसौन्दर्यमपि चेतोहरं शुभम् । तत्पत्रमधुना तुभ्यं ददामि सुखदायकम् पत्रेऽस्मिन भव्येन स्नेहस्याशा अनेकशः । दर्शिताः स्पष्टभावार्थाः सुधाधारा इव स्फुटाः तरंगवत्यथ स्वीयां वदति प्राक्तनीं कथाम् । आगतं स्वामिनं साक्षा-दिन हस्ते विधाय तत् वक्त्रेण चुम्बितं मोदात्पत्रं प्रेमाऽमृताऽऽस्पदम् । मयोत्कण्ठितया शीघ्रं दृढवेष्टनवेष्टितम् यावदीयमुद्रा मे नेत्रयोः प्रस्फुरत्यलम् । कर्णघोष सखीशब्दाः प्रविशन्ति मुहुर्मुहुः तावदेव मनःक्षेत्रे प्रमोदाङ्कुरराशयः । प्रादुर्भूताः प्रभृता मेऽप्रमेयक्षेमदायकाः चम्पकस्य यथा पुष्प-दलानां स्फुटनात्परम् । निःसरन्ति बहिस्तन्तु -राशयश्चित्तमोहकाः मुद्रामुत्सार्य तत्पत्रं वाचितुं सस्पृहाऽभवम् । मन्मृत्युमन्तरा सर्व पूर्वजन्मकथानकम् वर्णितं तेन सम्पूर्ण चमत्कारकरं भृशम् । यावत्सहावसाव द्वौ तावत्सर्वं हि निश्चितम् मन्मृत्योश्च कथान्त्वेष नाशासीत्करुणालयः । आनन्दोल्लसितेनाहं हृदयेन रसप्लुता For Private And Personal Use Only ।। ९८९ ।। ।। ९९० ।। ॥ ९९१ ॥ ॥ ९९२ ॥ ॥ ९९३ ॥ ॥ ९९४ ॥ ।। ९९५ ।। ।। ९९६ ॥ ॥ ९९७ ॥ ।। ९९८ ।। ॥ ९९९ ॥ ॥ १००० ॥ ॥ १००१ ॥ ॥ १००२ ॥ Acharya Shri Kasagarsun Gyanmandir GRRRRR
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy