SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ॥८४९॥ ॥ ८५१॥ ॥८५२॥ ॥ ८५३॥ ॥ ८५४ ॥ पद्मदेवामिधस्तस्य पुत्रोऽस्ति जनवल्लभा. रूपेण कामजिच्चैव पद्मपत्रमनोहर:. माता शीलसमायुक्ता धर्मकर्मपरा सदा । नाम्ना वसुमतीत्यस्ति क्षमादिगुणमण्डिता." सखीमुखाग्निशम्येति सुधासारवचस्ततिम् । समुत्कण्ठितकों मे परां तृप्तिमवापतुः. वृत्तान्तज्ञानतो धन्या-प्यधन्या दर्शनं विना. । तथापि तत्प्रशंसायां तत्पराऽऽसं प्रमोदतः. "भगिनि ! त्वं क्षितौ भाग्यशालिनी विद्यसे ध्रुवम्, । यतस्ते दर्शनं जातं स्वामिनो मम शोमनम्. वांसि तस्व भद्रस्य श्रुतानि सुखदानि च । प्रत्यक्षतस्त्वया. भद्रे ! किमन्यद्भाग्यलक्षणम्?". व्रजन्ती सा पुनः प्रोक्ता मयाऽऽनन्दितचेतसा । "भतप्रेमनिमनायाः शोकः सखि ! पलायित:." ततोऽहं विहितस्नाना विधाय गुरुवन्दनम् । जिनेन्द्रपूजनं कृत्वा पारणां कृतवत्यहम. पारणाश्रमतः खिमा कटमास्तीर्य शोभनम् । विश्रामाय गता वायु-शीतले गृहखण्डकेस्वामिसमागमाशामिहुभिमुढमानसा । तत्स्नेहेन वियुक्ताऽपा-नयं समयं स्वयम्. तदा सारसिका पश्चादागता श्वासपूरिता । नेत्रयोरथुसन्दोहं वहन्ती बदरोपमम्. मामवोचत शोकार्ता-"सर्वलोकशिरोमणिः । धनदेवः स्वयं मित्र-मण्डलेन समन्वितः सम्बन्धिमिः समं श्रेष्ठी त्वत्तातान्तिकमागतः। तेन स्पष्ट वचः प्रोक्तं निजकार्यविधित्सया"श्रेष्ठिन् ! त्वदीयपुत्री मे सुताय गुणशालिने । दीयतां चेच्छुभाका युष्माकं वर्ततेऽधुना. ॥ ८५६॥ ॥८५७॥ ॥८५८॥ ॥८५९॥ ॥८६०॥ ॥८६२ ॥ For Private And Personale Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy