SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 18**********RETTEERCHORERS www.kobarth.org चित्रितानीह चित्राणि निजकल्पनया नहि । सत्यमेतद्विजानीहि स्वानुभूतं हि चित्रितम्. कियद्वृत्तान्तमेतच्च वर्णितं तस्य सन्निधौ । ततः स त्वत्पतेः पार्श्वे जगाम त्वरयाऽन्वितः तयोर्वार्त्ताप्रबन्धं च श्रोतुमप्यहमुत्सुका । तमन्वगच्छं धावन्ती त्वदीयहितवाञ्छया. तत्र गत्वाऽब्रवीदाशु पृच्छकः पुरुषः स तमू । " मा कुरु मित्र ! चिन्तां त्वं पद्मदेव !, तव प्रिया विद्यमानाऽस्ति तद्वार्ता मिलिता साम्प्रतं मम । सुता ऋषभसेनस्य नगरश्रेष्ठिनोऽस्ति सा. तरङ्गवत्यभिख्या च तथा चित्रगणोऽद्भुतः । मोचितो लोकवीक्षार्थं चत्वरेऽस्मिन् सुचित्रितः. तस्याः सख्याः प्रदत्तेन मत्प्रश्नस्योत्तरेण च । मया तन्निश्चितं सत्यं वृत्तान्तं करुणामयम् . " एतद्वार्त्ता समाकर्ण्य स्वद्भर्तुर्भुखमद्द्भुतम् । प्रफुल्लपङ्कजमिव चकासे दृष्टचेतसः. ततः सोऽचीकथमित्र मानन्दमयजीवनम् । “भविष्यति ममेदानीं सफलश्च मनोरथः. यदि चक्रवाकी मे पूर्वजन्मनि वल्लमा । नगरश्रेष्ठिनः पुत्री गृहे जाताऽस्ति साम्प्रतम्." पुनचिन्तातुरो भूत्वा पद्मदेवोऽञ्जसाऽवदत्- । “तत्कन्यायाचकाः सर्वे निषिद्धास्तेन मानिना. प्रभूतधनवानस्याः पिताऽस्ति बुद्धिमत्तरः। अखिले नगरे मान्यः कन्यां दवे कथं निजामू १ तस्मादस्मन्मनोऽभीष्ट - प्राप्तिर्नैव भविष्यति । मानिनो हि न मुञ्चन्ति कदापि निजमाग्रहम्. प्रियाशुद्धिमनुप्राप्य यदि तां न मिलाम्यहम् । तदाऽपह्यतरं दुःखं पूर्वस्मादधिकं भवेत्." For Private And Personal Use Only ॥ ८०२ ॥ ॥ ८०३ ॥ ।। ८०४ ।। ।। ८०५ ।। ।। ८०६ ।। ॥ ८०७ ॥ ॥ ८०८ ॥ ॥ ८०९ ॥ ॥ ८१० ॥ ॥ ८११ ॥ ॥ ८१२ ॥ ॥ ८१३ ॥ ॥ ८१४ ॥ ॥ ८१५ ॥ Acharya Shri Kassagarsun Gyanmandir ******88
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy