________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनाचार्यबुद्धिसागरसूरिविरचितः
दयाग्रन्थः
परब्रह्ममहावीर, वीतराग नमोऽस्तुते त्वदुक्तसद्दयाबोधात्, दयाग्रन्थं करोम्यहम् ॥ १॥ दयासमो महाधर्मों, न भूतो न भविष्यति दयायामीश्वरावासो, धर्ममूलं दयाशुभा ॥२॥ अहिंसा परमोधर्मों, धर्मोनाऽस्ति दयांविना दयैवपरमं सत्य, दयैव परमं तपः ॥ ३ ॥ अहिंसैवमहायज्ञो, दयैव प्रभुसाधना, नाऽस्ति दयासमा सेवा, भक्तिोऽस्तिदयासमा ॥४॥ दयैव सर्वधर्माणां, सारश्चित्तस्यशुद्धिकृत् । हिंसा पापस्यमूलं च, धर्ममूलं दया सदा ॥ ५॥ दयार्थ सत्यमस्तेय, ब्रह्मचर्य प्रकाशितम् दयार्थं च क्षमात्यागो, दानं च यतना शुभा ॥ ६ ॥ दया यत्र प्रभुस्तत्र, सत्यं सत्यं वदाम्यहम् ; सर्वजीवस्यरक्षार्थ, दयां दानं समाचरम् ॥ ७॥ दयायां वेदवेदान्त-रहस्यंमाति सर्वथा; दयामूलं प्रभोसूक्तं, पापमूलंकुवासना ॥८॥ दयैव देवपूजाऽस्ति, दयैव तीर्थसेवनम् ; मनोवाकाययोगेन, दया कृत्यं कुरुष्व भोः ॥९॥
For Private And Personal Use Only