________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्यक्त्वदर्शनंव्यक्त, माऽऽत्मोपयोग इष्यते आत्मोपयोगिनां सर्वे-मार्गा मोक्षाय भाषिताः ॥४८७॥ सम्यक्त्वदर्शनं प्राप्य-, मा प्रमादं कुरुष्वभोः आत्मन् !! शुद्धस्वरूपंते, चिन्तय स्वस्थिरोभव ॥४८८॥ सत्याऽऽसत्यंच विज्ञाय, मा मुख्य मोहकर्मणि; असत्ये वर्तमानोऽपि, तत्र सत्यं न वेदय ॥४८९॥ सम्यग्दृष्ट्या प्रविज्ञाय, स्वाऽऽत्मधर्मे रतिं कुरु प्रारब्धकर्मभोगेषु, रति मा कुरु चेतन !!! ॥४९०॥ वैषयिकरतित्यक्त्वा , शुद्धाऽऽत्मनि रतिं कुरु: पवित्राऽऽत्मा भवस्पष्ट, परब्रह्ममयोभव ॥४९१॥ सम्मील्य सागरे बिन्दु, यथाब्धिरूपतांभजेत् तथा परात्मा प्राप्य, स्वाऽऽत्मासिद्धो भवेत्स्वयम् ॥४९२॥ मनोवाकायजान दोषान् , वारय निजशक्तितः धारय सद्गुणान् सर्वान् , जीव ! स्वाभाविकैर्गुणैः ॥४९३॥ सन्त्यज्य दुर्मतिं दुष्टां, सन्मतिं भज भावतः शुभाऽशुभविपाकेषु, हर्ष शोकञ्च संत्यज ॥४९४॥ कर्माधीना जगज्जीवा, मित्राणि शत्रवो न ते; आत्मोपयोगभावेन, सर्वजीवान् क्षमापय ॥४९५॥ रागद्वेषौ न मे सर्व-, विश्वस्मिन् देहिनः प्रति उत्थितोऽहं स्वमुत्त्यर्थ, समोऽहं सर्वदेहिषु ॥४९६॥ परब्रह्मपदाऽवाप्त्यै, मनोवाकायसाधनैः उत्थितोऽहंपरप्रीत्या, सद्गुरु कृपयाभृशम् ॥४९७॥ परब्रममहावीर-कृपां याचे स्वमुक्तये; सतां कृपाकटाक्षेण, मदुद्धारो भवेद् ध्रुवम् ॥४९८॥
For Private And Personal Use Only