________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१
सम्यश्रद्धानसम्यक्त्व-लाभात्पश्चात्प्रकाशते; अल्पकालेचिरंकाले, चारनं चाऽऽत्मनः स्फुटम् ॥४७॥ स्वाऽऽत्मानंस्वं परिज्ञाय, शीघ्रमुत्तिष्ठजागृहि स्वपर्यायगुणानांत्व, माविर्भावंकुरुद्रुतम् ॥४७६॥ आत्मनः पूर्णशुद्धिर्या, सैवसाध्या जिनोदिता साध्यलक्ष्योपयोगेन, स्वाऽऽत्मशुद्धिकुरुद्रुतम् ॥४७७॥ साध्यलक्ष्यं हृदिध्यात्वा, कर्तव्यकार्यमाचर !!! आत्मोत्साहेनवर्तस्व, प्रमादाँश्चनिवारय ॥४७॥ प्रतिक्षणंपरब्रह्म-, शुद्धरूपंविचारय; भूयाः शुडाऽऽत्ममग्नस्त्वं, विस्मृत्यमोहभावनाम् ॥४७९॥ निर्ममोभवसर्वत्र, दृश्याऽदृश्येषुवस्तुषु, नाऽहंकारीभव व्यक्त-, दृश्यादृश्येषु सर्वथा ॥४८०॥ साक्षिभावेनसर्वत्र, वर्तस्वस्वोपयोगतः औपचारिककार्येषु, निर्लेपोभवबोधतः ॥४८१॥ मृत्युतानि यीभूय-स्वाऽऽत्मनिनिर्भयचर; जातस्यवपुषोनाशः स्वयंत्वमविनाशवान् ॥४८२॥ जातानांहि विनाशोऽस्ति, तेषांशोकंनिवारय; आत्माऽसिसच्चिदानन्दः स्वस्वरूपंविचारय ॥४८३।। साधयस्वाऽऽत्मनः शुद्धि, वारय मोहवासनाम् जनान् स्मारय सद्ब्रह्म-धारय स्वोपयोगिताम्-॥४८४॥ जीव !! शुद्धोपयोगेन, नियस्व मोहभावतः विस्मर मोहभावास्त्व, मात्मरूपंच संस्मर-॥४८॥ असंख्यमार्गा मोक्षस्य, सन्तिस्वाऽऽत्मोपयोगिनाम् : तेषामेकमपिमाप्य-सिद्धाः सेत्स्यन्ति देहिनः ॥४८६॥
For Private And Personal Use Only