________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3७ असंख्यजातिविद्यानां, ग्रन्थकोटिस्तु भूतले, तत्पारमाऽऽत्मबोधेन, पार्यते स्वोपयोगिभिः॥४२७॥ दर्शनधर्ममार्गाणां, सर्वसत्यं निजाऽऽत्मनि; विज्ञायचाऽऽत्मशुड्यर्थ, जैनधर्म प्रसाधय ॥४२८॥ षड्द्रव्यनवतत्त्वानां-, नयनिक्षेपभङ्गतः श्रद्धानपूर्वकं ज्ञानं, सम्यग्दर्शनमुच्यते-॥४२९॥ सम्यग्दर्शनलाभेन, सत्फलाधर्मसाधना; निष्फलंधर्मकृत्यं स्यात् , सम्यग्दर्शनमन्तरा ॥४३०॥ सम्यग्दर्शनमेवाऽस्ति, शुद्धोपयोगात्मनः सम्यग्चारित्रमेवाऽस्ति, शुद्धोपयोगआन्तरः ॥४३१॥ शुद्धोपयोगिनांसर्व,-वाणीकायादिवर्तनम् । स्वर्गायमुक्तयेवास्या, त्तत्रकिञ्चिन्न संशयः ॥४३२॥ दया सत्यं तपादान,-मस्तेयंचापरिग्रहः आत्मदृष्टिश्च सत्सेवा, शुद्धोपयोगहेतवः ॥४३३॥ भक्तानां भावतः सेवा, प्रमाणिक प्रवर्तनम् । पारतन्त्र्यं न भोगानां, रोगादौ न च दीनता ॥४३४॥ साहाय्यंदुःखभोक्तृणा, मनीतिवर्जनं सदा; सत्यांशेषु महारागः शुद्धोपयोगहेतवः ॥४३५॥ सर्वविश्वस्थजीवाना, मुपकारप्रवृत्तयः सर्वथा मदिरात्यागो, मांसस्यपरिवर्जनम् ॥४३६॥ व्यभिचारस्य संत्यागो, दुष्टव्यसनवर्जनम् ; पशुपक्षिमनुष्याणां, हिंसात्यागो विवेकिता ॥४३७॥ चारित्रिणां महाभक्तिः स्थिरप्रज्ञाक्षमार्जवाः इत्यादिसद्गुणैर्मोक्षो, विश्वस्थदेहिनांभवेत् ॥४३८॥
For Private And Personal Use Only