________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धर्म्ययुद्धादिकर्माणि, कुर्वन्तउपयोगतः आत्मशुद्धिप्रकुर्वन्ति, मोहासक्तिविवर्जकाः ॥८२॥ क्षेत्रकालानुसारेण, कर्तव्यमुपयोगतः कुर्वन्तोमानवा मुक्तिं, यान्तिसर्वाश्रमस्थिताः ॥८॥ जैनधर्मस्यसारोऽस्ति, शुद्धोपयोग आत्मनः शुद्धोपयोगलाभेन, नान्यधर्मप्रयोजनम् ॥८४॥ आत्मशुद्धोपयोगेन, संक्षयो द्वेषरागयोः आत्मैवशुद्धसिद्धाऽऽत्मा, स्यात्षटकारकवानप्रभुः॥८॥ सिद्धास्सिद्ध्यन्तिसेत्स्यन्ति, नग्नाश्चोपधिधारिणः आत्मशुद्धोपयोगेन, त्यागिनश्चगृहस्थिताः ॥८६॥ पूर्णानन्दसमुल्लास, आत्मनिसंप्रकाशते आत्मानुभवएवात्र, साक्षादाऽऽत्मनि वेद्यते. ॥८७॥ शुद्धब्रह्मरसास्वाद, कृत्वाशुद्धोपयोगिनः। बाह्योपाधिपरित्यज्य, भवन्तिध्यानतत्पराः ॥८॥ शुद्धोपयोगएवास्ति, स्वाऽऽत्मानुभवआत्मनि । आत्मानुभविभिर्वेद्य, आत्मैवानुभवः प्रभुः ॥८॥ ज्ञानवैराग्ययोगैस्तु, ब्रह्मणि लीनताभवेत् । ब्रह्मणिपूर्णमन्नानां, सर्वैश्वर्य प्रकाशते. ॥९॥ आदेयत्यागवृत्तिस्तु, नास्तिबाह्येषु योगिनाम्, शुद्धोपयोगिनां त्याज्यं, ग्राह्यं च नैव मोहतः ॥११॥ प्रारब्धाद्ग्रहणंत्यागो, मनोवाकायतोभवेत्; कायादीनांप्रवृत्तिषु, साक्षी शुद्धोपयोगवान् ॥१२॥ दृश्याऽदृश्यपदार्थेषु, साक्षिणउपयोगिनः मनोवाकायचेष्टासु, प्रारब्धेष्वपिसाक्षिणः ॥१३॥
For Private And Personal Use Only