________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मोपयोगरूपाऽस्ति, ध्यानवृत्तिर्मनीषिणाम् ; आत्मशुद्धोपयोगेऽन्त-, आँवं यांति समाधयः ॥७॥ कषायोपशमेजाते, चित्तवृत्तिसमाधयः प्रादुर्भवन्ति शान्तानां, योगिनामुपयोगतः ॥७१॥ आत्मोपयोगएवाऽस्ति, समाधि ज्ञानिनां सदा सर्वकार्यप्रकुर्वन्सन, ज्ञानीसत्यसमाधिमान् ॥७२॥ हठादनंतशिष्टोऽस्ति, शुद्धोपयोगआत्मनः हठयोगोबहिर्हेतुः शुद्धोपयोगआन्तरः ॥७३॥ स्मारस्मारंचिदाऽऽत्मान, मुपयोगीभवेत्प्रभुः देहस्थोऽपि स निर्देही, सर्वविश्वप्रकाशयेत् ॥७॥ अनन्तपुण्ययोगाच्च, सांभक्तिप्रतापतः सद्गुरोराशिषोव्यक्तः स्यादुपयोग आत्मनि ॥७॥ कोटिकोटितपोयज्ञ-, तार्थयात्रादिकमतः अनन्तउत्तमः श्रेष्ठः शुद्धोपयोग आत्मनः ॥७६॥ शुद्धोपयोगतोमुक्तिः सर्वदर्शनधर्मिणाम् समत्वमुपयोगोऽस्ति, ह्यकतालीनतातथा ॥७७॥ व्यक्तसाम्योपयोगेहि, केवलज्ञानभास्करः हृदिप्रादुर्भवत्येव, लोकालोकप्रकाशकः ॥७८॥ माम्योपयोगिनांमुक्तिः सर्वधर्मस्थदेहिनाम: अनार्याणांतथाऽऽर्याणां, नारीणांचनृणांभवेत् ॥७९॥ शुद्धाऽऽत्मनः स्मृतिधृत्वा, हृदिशुद्धाऽऽत्मधारणम् ; कुर्वन्नाऽऽत्मनिमग्नोयः स शुद्धाऽऽत्माभवेद्रयात्॥८॥ शुद्धोपयोगिनो धर्म्य-, कर्मकुर्वन्तिभावतः दानपूजादयायैस्ते, कुर्वन्तिकर्मनिर्जराम् ॥८ ॥
For Private And Personal Use Only