________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षायोपशमिकध्यान-कालेशुद्धोपयोगता, अन्तर्मुहूर्तमानंच, यातिनश्यत्यनेकशः ॥२२॥ आत्मशुद्धोपयोगस्तु, सर्वयोगशिरोमणिः यत्प्राप्ताविद्यतेनैव, निमित्तानांप्रयोजनम् ॥२३॥ शुद्धोपयोगएवास्ति, शुद्धोपादानकारणम् हृदिशुद्धोपयोगश्चे, बमुक्तिसुखंध्रुवम् !२४॥ शुद्धोपयोगऐश्वर्य, यस्याऽसौ भगवान् स्वयम् क्षायोपशमिकध्यानी, जीवन्मुक्तोह्यपेक्षया ॥२॥ शुद्धोपयोगवेलाया, मात्मनः परमात्मता, चिदानन्दस्वरूपेण, व्यक्ताऽनुभूयते मया ॥२६॥ शुद्धोपयोगसामर्थ्य, मनन्तं कर्मनाशकृत् अनन्तशक्तिरूपाऽऽत्मा, तत्समाकोऽपिनोमहान् ॥२७॥ आत्मन आत्मनोद्धार, आत्मनिक्रियते ध्रुवम् भवोऽशुद्धोपयोगेन, मुक्तिः शुद्धोपयोगतः ॥२८॥ आत्मानमुद्धरेदाऽऽत्मा, स्वाऽऽत्मधर्मोपयोगतः नाऽन्यः शक्तः समुहर्तु, ज्ञातुमाऽऽत्मानमुडर ॥२९॥ अन्तर्मुखोपयोगेन, स्वाऽऽत्मारामोभवेत् प्रभुः वहिर्मुखोपयोगेन, जन्मदुःखपरम्परा ॥३०॥ परात्मानंहृदिध्यात्वा, स्वाऽऽत्माव्यक्तो भवेत् प्रभुः आत्मानमन्तरामह्यां, कोऽपिनाऽस्तिप्रकाशकः ॥३१॥ शुद्धोपयोगवेलायां, पूर्णानन्दप्रकाशता। व्यक्तभिवेबृदि स्पष्टा, प्रत्यक्षमनुभूयते ॥३२॥ जडविषयिभोगेषु, सत्यानन्दो न वर्तते । भोगेरोगश्चदुःखञ्च, जन्ममृत्युपरम्परा ॥३३॥
For Private And Personal Use Only