________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जन्ममृत्युजरातीत-माधिव्याधिविवर्जितम् । वपुर्मनोवचोऽतीतं, जडभिन्नंचनिर्भयम् ॥१०॥ वर्णातीतं निराकार, निर्विकारं निरामयम् नामरूपविनिभिन्नं,-विशुद्धरूपमाऽऽत्मनः ॥११॥ समत्वेनजगत्पश्यन् , जानंश्चब्रह्मरांस्थितः शुद्धोऽसौ क्षणमात्रेण, भवत्याऽऽत्मा स्ववेदकः॥१२॥ शुद्धोपयोगिनांनान्यत् , साधनस्यप्रयोजनम् सर्वसाधनसंसाध्या, शुद्धोपयोगसाध्यता ॥१३॥ शुद्धोपयोगसंप्राप्तौ। मुक्ताऽऽत्माजायतेखलु । देहेसत्यपिवैदेहो, जीवन्मुक्तदशांव्रजेत् १४॥ सर्वजातीयसंकल्प-विकल्पोपशमेसति पूर्णानन्दरसास्वादः प्रत्यक्षमनुभूयते ॥१५॥ निर्विकल्पदशायांतु-ब्रह्मशर्मसमुल्लसेत् । ब्रह्मरसंसमासाद्य-शुद्धाऽऽत्मानिःस्पृहोभवेत् ॥१६॥ शुभाऽशुभपरीणामो, विद्यतेनैवचेतने, समत्वंचान्तरेबाह्ये, तदाऽऽत्माभगवानस्वयम् ॥१७॥ देहेन्द्रियपदार्थानां, सम्यग्दृष्ट्या विलोकनम् शुभाऽशुभविपाकेषु, समत्वंतर्हि मुक्तता ॥१८॥ शुभाशुभपरीणामे-नष्टेशुद्धोपयोगतः । आत्मशुद्धविचाराणां, भवेच्छुद्धोपयोगता ॥१९॥ शुभाऽशुभेचनोभातो, हृदि साम्यंच भासते तदासिद्धाऽऽत्मनः शर्म, स्वनुभूयेत संप्रति ॥२०॥ शुद्धोपयोगकालेतु, संप्रतिवपुषिस्थिते; परानन्दरसास्वादो, मयासंवेद्यते खलु ॥२१॥
For Private And Personal Use Only