________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૧૫
Acharya Shri Kailassagarsuri Gyanmandir
जडानां न च कर्ताऽस्ति, देहातीतो निरञ्जनः । सर्वगः सर्वभिन्नोऽस्ति, जडस्थोऽपि न यो जडः ॥ ७१ ॥ अनन्ताश्चेतना बोध्याः कर्मयुक्ता वपुःस्थिताः । अनन्ताः परमाऽऽत्मानः, कर्मातीता जिनेश्वराः ॥ ७२ ॥ अज्ञानात् कर्मबन्धोस्ति, जीवानां भववर्तिनाम् । आत्मज्ञानाद् भवेन्मोक्षो -- ज्ञानानन्दमयः खलु ॥ ७३ ॥ असुराः प्राणिनो ज्ञेया- देहादिमात्रसेवकाः । आत्मानस्ते सुरा बोध्या-- आत्माभिमुखवृत्तयः ॥७४॥ आसुर प्रकृतेर्जेता, येनाऽऽत्मा सुर उच्यते । सुराणां शूरता पूर्णा, जायते मोहनाशिका ॥ ७५ ॥ विश्वलोकानुकूलोsस्ति, जैनधर्मः सनातनः । वस्तुस्वभावधर्मोऽस्ति, सर्वलक्षणलक्षितः ॥ ७६ ॥ सत्यान्नास्ति परो धर्मे, जिनोक्तं सत्यमेव तु । सत्यात् परो जयो नास्ति, जयः सत्यात् प्रजायते ॥७७॥ पक्षपातो न धर्मेऽस्ति, धर्मात् सत्यं प्रकाशते । पुण्यपापात् सदाभिन्न- आत्मधर्मः सुखावहः ॥ ७८ ॥ पुण्यात् स्वर्गो भवेच्छुभ्रं, - पापाच्च सर्वदेहिनाम् । पुण्या दूर्ध्व मधः पापात, धर्मो मोक्षाय जायते ॥७९॥ पुण्यपापक्षयान्मुक्ति- र्भवेन्निर्लेपयोगिनाम् । • पुण्यकर्माणि कुर्वन्सन्, ज्ञानी धर्मप्रकाशकः ॥ ८० ॥ ज्ञानिनो नैव लिप्यन्ते, कदाचित्पुण्यकर्मभिः । तथापि ते तु सर्वेषां भवन्ति सुखहेतवे ॥ ८१ ॥ उपयोगेन शर्माsस्ति, क्रियया कर्म जायते । परिणामेन बन्धोऽस्ति जानाति पूर्णतत्त्वविद् ॥ ८२ ॥
For Private And Personal Use Only