________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૩૪ जातस्य जायते नाश-आत्मा जातो न कर्हि चित् । आत्मनो न भवेन्मृत्यु-र्दैहादेस्तंनिबोधत ॥ ५९॥ जन्मनाशादितो भिन्न-आत्मा शुद्धस्वभावतः । ज्ञात्वैवं मृत्युकालान, भीतिमाप्नोति पण्डितः॥६०॥ देहाद्भिन्नं यथा वस्त्रं, तथाऽऽत्मा देहतः पृथक् । जन्म मृत्यु यथा देहे, न तथाऽऽत्मनि विद्यते ॥ ६१ ॥ सदसदादिरूपाऽऽत्मा, ध्येयः प्राप्यो हृदि स्थितः । यत्प्रकाशाज्जगत्सर्व, भासते ऽनादिकालतः॥ ६२ ॥ अस्तिनास्तिस्वरूपाऽऽत्मा, व्याप्यव्यापकभाववान् । अनंतसच्चिदानन्द-आत्मा ध्येयः सनातनः ॥ ६३ ॥ ज्ञाने ज्ञेयलयोत्पादा-भवन्ति यत्र वस्तुतः। चेतनः परमाऽऽत्मैव, आत्मा सोऽनंतशक्तिमान् ॥६४॥ आत्मैव जैनधर्मोऽस्ति, चारित्रमार्गदृष्टितः । 'आत्मैव जैनरूपोऽस्ति, शुद्धाऽऽत्मा जिनभास्करः॥६५॥ दर्शनज्ञानचारित्र-रूपाऽऽत्मा विश्वपावकः। मोहादिकर्मसंहर्ता, कर्ताऽकर्तास्त्यपेक्षया ॥६६॥ शुद्धाऽऽत्मा न च कर्ताऽस्ति, विश्वस्थलोककर्मणाम् । नैव सृजति भूतानि, न च दुःखादिकारकः ॥ ६७॥ सिडा जीवा जगत् सर्व, द्रव्यतोऽनादिकालतः। पर्यायापेक्षया सादि-सान्तं द्रव्याऽऽत्मकं जगत् ॥६८॥ पश्चद्रव्येषु चाऽऽत्मास्ति, सर्वज्ञः परमेश्वरः । 'अनन्तः सच्चिदानन्दः, सत्तया द्रव्यतस्तथा ॥ ६९॥ नास्ति पुद्गल भावानां, कर्ता कारयिता च सः। शुद्धनिश्चयपूर्णात्मा, परब्रह्म जिनेश्वरः ॥ ७० ॥
For Private And Personal Use Only