________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१० देवपूजा गुरोः पूजा, धर्मस्याराधनं तथा। वैयावृत्यं सुसाधूनां, मोक्षमार्गों मनीषिणाम् ॥११॥ स्वाधिकारेण कर्तव्यं, कर्म भव्यैः स्वशक्तितः । निरासक्तितया कर्म-विधाने नैव दूषणम् ॥ १२ ॥ अन्तराऽऽत्मगृहस्थानां, कर्मवन्धो न जायते । सम्यग्दृष्टितया कर्म-नाशो भवति सर्वथा ॥ १३ ॥ प्रवृत्तिनैव बन्धाय, सम्यग्दृष्टिमनीषिणाम् आस्रवस्यापि यो हेतुः, संवरायैव जायते ॥ १४ ॥ निरासत्त्या भवेन्नैव, कर्मबन्धोऽन्तराऽऽत्मनाम् ॥ आसक्तिः कर्मबन्धाय. जायते सर्वमोहिनाम् ॥ १५ ॥ धर्मयुद्धादिकर्माणि, कर्तव्यानि मनीषिभिः। कर्तव्यकर्मणां त्यागान् , निपातः सर्वदेहिनाम् ॥१६॥ सबलं सर्वथा प्राप्यं, देशकालप्रयुक्तिभिः । मौयं कदापि नो सेव्यं, ज्ञान प्राप्यं जनैः सदा ॥१७॥ प्रवृत्तावधिकारोऽस्ति, नृणां प्रकृतियोगिनाम् । यद् भाव्यं तद् भवत्येव, निश्चयज्ञानधारिणाम् ॥१८॥ कर्मभ्रष्टा भवेयु न, कर्तव्यकर्मकारिणः। साक्षिभावेन वर्तन्ते, शुभाशुभेषु कर्मसु ॥ १९ ॥ स्वधर्मः श्रेयसे नृणां, स्वाधिकारेण संगतः। अन्यधर्मों न शान्त्यर्थं, जानन्ति ज्ञानयोगिनः ॥२०॥ षडावश्यककर्माणि, कर्तव्यानि जनैः सदा। मातृपूजादिका यज्ञाः पञ्च सेव्याः सुभावतः ॥२१॥ सर्वत्र सर्वजीवानां, रक्षा पुण्येश्वरात् भवेत् । सर्वत्र सर्वजीवानां, दुःखं पापयमाद् भवेत् ॥ २२ ॥
For Private And Personal Use Only