________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीकृष्णगीता ॥
एकदा द्वारिकापु, नेमिनाथो जगत्प्रभुः । बासुदेवस्य कृष्णस्य, बोधार्थ समुपागतः ॥ १ ॥ जिनेन्द्रनेमिनाथेन, महाधोरर्षिणा स्यात् । आत्मादितत्वबोधेन, वासुदेवः प्रबोधितः ॥ १ ॥ अन्तरात्मा तदा जातो- नेमिनाथस्य भक्तराट् । वासुदेवेन सम्यक्त्वं, स्वीकृतं तत्त्वबोधतः ॥ ३५ श्रीकृष्णवासुदेवेन नेमिनाथस्य शिक्षया । जैनधर्मप्रचाराय हिंसायज्ञा निवारिताः ॥ ४ ॥ भारते जैनधर्मस्य, प्रचारः प्रेमतः कृतः । पडवानां सता मग्रे, युद्धकाले विवेकतः ॥ ५ उपदेशप्रदानस्य, प्रवृत्ति वचया कृता । ज्ञानेव तस्य सत्सारं, भाषे लोकहिताय ततः ॥ ६ ॥ अरिष्टनेमिनाथेन, जैनधर्मः प्रकाशितः । विश्वोद्धाराय सम्पूर्ण, सत्यं तत्र प्रवर्तते ॥ ७ ॥ व्यापकोsस्त्यात्मरूपश्च, जैनधर्मः सनातनः । तबुदाराय तीर्थेशा-जायन्ते च युगे युगे ॥ ८ ॥ ब्रह्मचर्य तपो दानं, भावना शम उच्यते । दशधा जैनधर्मास्ति, पञ्चधा च द्विधा शुभः ॥ ९ ॥ गृहस्थत्यागधर्म, द्विधा धर्मो जगत्तले ॥ स्वाधिकारेण संसेव्यः स्वर्गसि डिप्रदायकः ॥ १० ॥
For Private And Personal Use Only