________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૧૧૪
Acharya Shri Kailassagarsuri Gyanmandir
वश कुरीतिव्यसनस्य माभूः, शक्रादयो मोहवशा हि दीनाः । स्वतन्त्रतायां निजराज्यमस्ति, त्याज्याश्च सर्वे व्यसनस्य दोषाः ॥ ११४ ॥
वर्तस्व चैवं दृढनिश्चयेन, स्वतन्त्रमुक्तेरियमस्ति युक्तिः । आत्मोपयोगेन यतो निजाssत्मा, प्रवर्तते तत्र हि सर्वयोगः ॥ ११५ ॥ प्रवर्तते चात्मवशं मनश्चेत्, सर्वे हि धर्माः सहसोद्भवन्ति । आत्मप्रकाशं वृणु निश्चयेन, सर्वप्रकाशोपरि सुप्रकाशम् ॥ ११६ ॥ सर्व प्रकाशं प्रविकाशयेत्सज्ञानाविलासी सहि शुद्ध आत्मा ।
एवं प्रलभ्यस्तवशुद्ध आत्मा, सर्वात्मशक्तीः प्रविकाशय त्वम् ॥ ११७ ॥ शिक्षां च श्रेणिक ! ! धारय त्वं,
नरावतारं सफलं कुरुष्व । भूपाल शिक्षाभयतो हि नार्यस्तथानरा धर्ममथोद्वहन्ति ॥ ११९ ॥ राजा च शिक्षां कुरुते यदैव, धर्मं वहन्त्याऽऽश्वधमा जनाश्च । प्रभोर्भयैर्मध्यनराः स्त्रियश्ध, धर्म तथा कर्म सदा चरन्ति ॥ ११९ ॥
For Private And Personal Use Only