________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૨૩ तस्मिंश्चिदानन्दमयः स्वधर्मीमोहादयो यत्र न सम्भवन्ति । शुद्धाऽऽत्मधर्मोऽस्त्ययमेव नूनं, जानीधुपादानत एव मर्म ॥ १०८॥ सर्वस्य संघस्य कुरुष्व सेवां, प्रीत्या चल श्रेणिक राजराज । ज्ञात्वा परेश सकलं स्वसंघ, तत्रैव धर्म सकलं च विद्धि ॥ १०९ ॥ सर्वत्र संघे विहिते च रागे, त्यागश्चसम्यक्त्वमुदेति नूनम् । हृद्वाग्वपुःशक्तिमुदीरय त्वं, निजाऽऽत्मशुद्धि हृदि भावय त्वम् ॥ ११०॥ बाह्याऽन्तरा एत्य समग्रशक्ती, कदाऽपि कुर्या नहि भूप! गर्वम् । निःशक्तिको याकुरतेऽतिगर्व, नरो भवेदाऽऽत्म गुणैश्च दीनः ॥ १११ ॥ हानि च लाभ प्रविचार्य चित्ते, कर्माणि कर्तुं धर निश्चयं त्वम् । आज्ञा मदीयां प्रतिपालय त्वं, भावेन दृश्यः सच शुद्ध आत्मा ॥ ११२ ॥ ममोपदेशाऽऽचरणं कुरुत्व, यस्मात्सदानन्द उदेति पूर्णः। मोहादिकं वारय जायमानं, मनःप्रभृतं हर दोषराशिम् ॥ ११३॥
For Private And Personal Use Only