________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૨૧ मोहादनीति न कदापि कुर्या, स्त्वं दु:खिनां भूप ! सहायकः स्याः। कुरु क्रियां सत्यपराक्रमेण, द्रव्येण भावेन कुरुष्व राज्यम् ॥ ९ ॥ समाननीतेम्सकले मनुष्ये, प्रधानतो भाति च जैनराज्यम् । जहीहि देहादिकमत्र लोके, देवाय धर्माय तथा गुरुभ्यः ॥ ९७ ॥ जीवन्ति यस्मात्परमार्थवर्गाधर्माय तस्मै कुरु धयंयुद्धम् । यत्राऽल्पदोषोऽस्ति महाँश्च धर्मोंगुणज्ञ तत्कर्म कुरु स्वमेवम् ॥ १८ ॥ धर्माय सर्व कुरु भूप ! कार्य, सहायतां धनिजनाय देहि.। व्यवस्थया त्वं कुरु भूप ! राज्यं, नेमियोग्यां कुरु कुत्रचित्त्वम् ॥ ९९ ॥ सत्यं दयाभावमथो विधेहि, चोराञ्जनाँश्चापनयाऽतिदूरम् । निवारय त्वं व्यभिचारमाशु, प्रचारय त्वं मुगुणान्यजासु॥१०० ॥ विभाति राज्यं दयया च सत्यैः, साम्राज्यमावि भवति प्रमाणात् । सर्वप्रजासौख्यकृतेऽस्ति राज्य, राज्यादि कार्य च तदर्थमेव ॥ १०१॥
For Private And Personal Use Only