________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૨૭
वहाऽऽत्मनि श्रेणिक चात्मधर्म, परिष्कुरुष्वाऽखिलराज्यनीतीः । दुःखं प्रजानां च निवारय त्वं, प्रजोन्नतिर्यत्र ततो हि धर्मः ॥१०॥ सर्वप्रजाः स्वाऽऽत्मसमाप्रविद्धि, न्यायेन राज्यं गुणवन्कुरुष्व । दुष्टान रिपून्दण्डय भूप राज्ये, दूरीकुरु त्वं दुरुपद्रवॉश्च ।। ९१ ॥ सर्वप्रजानां च कुरुष्व रक्षा, सेवाख्यधर्म वह भूप रागैः । ज्ञानप्रचारं च कुरु प्रजासु, कुरुष्व दुष्टव्यसनाभिघातम् ॥ ९२ ॥ वश्यान्सदाशत्रुजनान्कुरु त्वं, सत्यांनियां ब्रूहि नरेन्द्रवाणीम् । मा धत्स्व राज्यादिकृतां महत्तां, स्वप्नेऽपि नो भूप कुरुष्व गर्वम् ॥ ९३॥ त्वं सर्ववर्णान्स्वसमान वेहि, नवाऽपमानं कुरु सन्मुनीनाम् । नीत्या रहस्यं सकलं विदित्वा, प्रचारय त्वं च मदुक्तनीतिम् ॥ ९४ ॥ स्वप्नेऽपि न त्वं कुरु पक्षपात, लोभादिकं वारय संभवन्तम् । स्मृत्वा च मां गच्छ नरेन्द्र मयां, गुणज्ञ जीवेषु वहानुरागम् ॥ ९५ ॥
For Private And Personal Use Only