________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૦૬
विश्वास आत्मन्युदितोऽस्ति यस्य, स जैनभक्तो मम निश्वयेन । अस्त्याssत्मनि सत्यसुखं विशार्क, सर्वं हि दुःखं जडमोहतोऽस्ति ॥ ३ ॥ स्वर्गों मनो यद्वशमाऽऽत्मनोऽस्ति मुक्तिर्भवेदाऽऽत्मवशं मनश्चेत् । मृते मनस्यस्ति समग्रमुक्तिमनोजयत्वेन भवेद्विमुक्तिः ॥ ७ ॥ यावद्भवेच्चञ्चलता स्वचित्ते, संसारमध्ये भ्रमणं च तावत् ।
रागाद्यधीनं च यतोऽस्ति चितं, स्वप्नेऽपि नो तत्र सुखोद्भवः स्यात् ॥ ८ ॥
समग्र विश्वस्य भवेदधीश, स्तथाऽपि शान्तिं लभते न किंचित् । मनुष्य आशानुचरोऽस्तियाबत्सुखी न तावत्स विनिश्वयेन ॥ ९ ॥ जिगाय चित्तं स जिगाय विश्व दुःखंतु चेतोजयमन्तरा स्यात् । मनोवशः कोऽपि भवेन्मनुष्योजगत्सु शान्ति लभते न कांचित् ॥ १० ॥ मोहस्य यावद्वशमस्ति चित्तं, शक्रादयःस्युः सुखिनो न तावत् ।
तमोरजःसत्वगुणाश्रयः स्यातावज्जिनः स्यान्नच कोऽपि जीवः ॥ ११ ॥
For Private And Personal Use Only