________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रेणिक सुबोधग्रन्थः
सर्वज्ञ हेबीर सदा जय त्वं, धीरः परेशो जगदीश्वरोऽसि । गुणास्त्वदीया भगवन्नपारा, कृत्वा कृपां तारय मां दयालो ॥ १ ॥ सत्योपदेशं कुरु नाथ मां, विनिश्चयाद्वा व्यवहारनीतेः । श्रीश्रेणिको भारतदेशराजो
प्रार्थये नाथ निजाऽऽत्मराज्यम् ॥ २ ॥ त्वय्यस्ति विश्वास उदारको मे, प्रकाशय स्वं खलु सर्वसत्यम् । न त्वत्समः कोऽपि जगत्सु देवस्त्वद्भक्तिसेवामनुकामयेऽहम् ॥ ३ ॥
निशामय श्रेणिक सत्यभूप, त्वमाssत्मरूपं ननु विद्धि विद्धि । आत्मावबोधाद्भवति स्वमुक्तिः, किञ्चिदुः भवेद्भूमिषु नापरोक्षम् ॥ ४ ॥ निजाऽऽत्मशक्तिः परमास्त्यपाराऽस्त्यनन्त सत्याश्रय एष आत्मा । जानाति यो ब्रह्म स वेत्ति सर्व, गर्यो न दुःखं न भवेच्च तस्मात् ॥ ५ ॥
For Private And Personal Use Only