________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૯૮
मांसाहारेण देहस्य, पुष्टिं जानन्ति केचन मांसं भुञ्जन्ति पश्वादे-निर्दया हिंसका जनाः ॥ ३४५ || मांसाहारेण लोकानां दीर्घायुर्नैव जायते नश्यति सात्त्विकीबुद्धि-देहाऽऽरोग्यं न तात्विकम् ॥ ३४६ ॥ तामसवृत्तिदोषाः स्यु- मंसिरक्तादिभोजिनाम् अतिकामादिदोषैश्च, पापराशिपरम्परा ॥३४७॥ मांसाहारिमनुष्याणां देहपुष्टिर्न तात्विकी फलान्नदुग्धभोक्तृणां, दीर्घायुः सात्विकी मतिः ॥ ३४८ ॥ मांसमद्यादिभोगेन, धर्मबुद्धिः प्रणश्यति
,
बहुरोगाः प्रजायन्ते, भवन्ति दुर्गुणा भृशम् ॥ ३४९ ॥ जिव्हास्वादस्य लाम्पट्याद्, देहपुष्टिप्रमोहतः मांसं भुञ्जन्ति ते पाप-कर्म बध्नन्ति दुःखदम् ॥ ३५० ॥ किञ्चित्सुखं महापापं पश्वादिमांसभोजिनाम् इतिविज्ञाय मांसस्य, त्यागं कुर्वन्तु मानवाः ॥ ३५१ ॥ पश्वादिहिंसनाल्लोका, विरमन्तु दयापराः प्रेमतः स्वाऽऽत्मवज्जीवान्, रक्षन्तु धर्मिमानवाः ॥३५२ || शुद्धोपयोग एवास्ति, चाऽहिंसासंयमस्तथा ज्ञानंध्यानमहिंसैव, भक्तिसेवाऽस्ति चान्तरा ॥ ३५३ ॥ आत्मनः शुद्धभावेन, ह्यहिंसा वस्तुतो भवेत् आत्मोपयोगसामर्थ्या- उज्ञानी निर्हिसको ध्रुवम् ॥ ३५४ ॥
यज्ञार्थपशवः सृष्टा - इतिमिथ्याप्रलापनम् दयाब्धिरीश्वरः प्रोक्तः, स हिंसां नैव भाषते ॥ ३५५॥ पशुपक्ष्यादिकं सृष्टं नृणां भक्षणहेतवे
प्रभुणेति प्रभाषन्ते, हिंस्वा अनार्यपापिनः ॥ ३५६ ॥
For Private And Personal Use Only