________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तम श्री सुपार्श्वजिन स्तवनं.
वमायोजनीयाः क्रियावत्त्वं पर्यायोपयोगिता प्रदेशाष्टकनिश्चलता एवं प्रकाराः सन्ति भुयांसः । अपि समुच्चये । एवं प्रकारा अनादिपारिणामिका भवन्ति जीवस्य भावाः । इहां जीवने विषे अनंता धर्म जुदा जुदा कह्या, तथा रत्नाकरावतारिकामध्ये सप्तभंग्यधिकारे । नन्वेकस्मिन् जीवादी प्रतिवस्तुन्यनंतधर्मात्मकत्वेनानंतधर्मवत्त्वमेव । स्याद्वादरत्नाकरे । एकत्र वस्तुन्ये कैकधर्मपर्यायानुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्चविधिनिषेधयोः स्यात्कारांकितः सप्तधा वाक्प्रयोगः सप्तभंगीति । नन्वेकस्मिन् जीवादिवस्तुन्यनंताविधीयमाननिषिध्यमानानानाधर्माः स्याद्वादीनां भवेयुः । वाच्येयता यत्तत्वा द्वाचकेयतायाः ततोविरुद्धैव सप्तभंगीति ब्रुवाणं निरस्यति । एकत्र वस्तुनि विधीयमाननिषिध्यमानानंतधर्माऽभ्युपगमेनानंतभंगी प्रशांतैव सप्तभंगीति न चेतसि निधेयमिति अत्र हेतुमाह ॥ विधिनिषेधप्रकारापेक्षया प्रतिपर्यायवस्तुन्यनतानामपि सप्तभंगीनामेव संभवादिति तथाप्येकैकपर्यायमाश्रित्य विधिनिषेधविकल्पाभ्यां न्यस्तसमस्ताभ्यां सप्तैव भंग्यः संभवंति न पुनरनंतास्तत्कथमनंतभंगीप्रसंगादिसंगतत्वं सप्तभंग्याः समुद्भाव्यते कुतस्तथैव भंगाः संभवंतीत्यवाहुः । प्रतिपर्यायं प्रतिपद्य तु पर्यनुयोगानां सप्तानामेव संभवादिति अनंतधर्मापेक्षा सप्तभंगीनामानंत्यं यदा याति तद्धिमतमेव ।।
एटले वस्तुविषे धर्म अनंता छे. इहां कोइ कहे जे धर्म तथा गुणवस्तु जुदी छे, ते अजाण छे, केमके नाम भेद अंशभेदपणुं तो शब्दादिक नय सर्व माने छे, घटकुंभादिकने विषे एक वस्तुना स्वमयीपर्यायमां पण नामभेदें भेद कहे छे, ए रीतें गुणशब्द तथा धर्मशब्दनो भेदार्थ छे, पण विशेष रीतें
For Private And Personal Use Only