________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
४१३
व्या०-निर्विकारमिति । महात्मनां सम्यग् आत्मभावपरिणतानां, 'अत्रैव' अस्मिन्नेव भवे मोक्षः यद्यपि सकर्मत्वमोक्षाभाव एव तथापि अत्रानंदसमताशीलानां स्वभावसुखलीनानां वर्णिकारूपेण मोक्षस्यारोपः कथितः । कथंभूतानां महात्मनां ? निर्विकारं विकाररहितं निराबाधं सर्वा बाधा पुद्गलसंयोगरूपा तया रहितं ज्ञानं तत्त्वबोधः तस्य सारं तत्वैकत्वरूपं चारित्रं उपेयुषां प्राप्नुवतां, पुनः कथंभूतानां आत्मनाम् ? विनिवृत्ता निवृत्ता परस्य आशा येषां विनिवृत्तपराशानां, सर्वथा पुद्गलाशारहितानां निर्वाञ्छकानां इहैव मोक्ष इति ॥ ६॥ चित्तमार्दीकृतं ज्ञान-सारसारस्वतोर्मिभिः। नाप्नोति तीव्रमोहाग्नि-प्लोषशोषकदर्थनाम् ॥ ७ ॥ ___ ज्या०-चित्तमिति । ज्ञानसाराभिधो ग्रंथः तस्य सरस्वती वाणी तस्या इमे 'ऊर्मयः' कल्लोलास्तैः येषां चित्तं आर्दीकृतं तेषां जीवानां तीवो मोहाग्नेः प्लोषः दाहः तेन यः शोषः तस्य कदर्थनां पीडनां नाप्नोति इत्यनेन ज्ञानसारासारवर्षगार्दीकृतचितामां मोहाग्नितापो न भवति ॥ ७॥
पुनस्तदेव कथयति
अचिन्त्या कापि साधूनां, ज्ञामसारगरिष्ठता। गतिययोर्ध्वमेव स्यादधःपातः कदापि न ॥८॥
__ व्या०-अचिंत्येति । भो भव्य ! 'साधूनां परमपदनिष्पादकानां कापि 'अचिंत्या' चिंतितुमशक्या ज्ञानसारगरिष्ठता अस्ति ।
२२५
For Private And Personal Use Only