________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
४११
व्या०-विद्येति। पुनः 'विद्याविवेकसंपन्नः' विद्या श्रुताभ्यासः। विवेकः स्वपरविभजनात्मकः । ताभ्यां संपन्नः तत्कथिते विद्याष्टकविवेकाष्टके । यो हि विद्याविवेकसंपन्नः स मध्यस्थः इष्टानिष्टे वस्तुनि रागद्वेषरहितो भवति तेन माध्यस्थ्याष्टकं । मध्यस्थो हि भयरहितः तेन भयवर्जनाष्टकम् । भयरहितस्य नात्मश्लाघा इष्टा इत्यनेन अनात्मशंसा भवति तत्तनिरूपणाष्टकं । यः लौकिकश्लाघाकीाद्यभिलाषरहितः स तत्वदृष्टिः तेन तत्त्वदृष्टयष्टकं । यस्य तत्वदृष्टिः स एव समृद्धः परमसंपदावान् भवति तेन समृद्धयष्टकं॥२॥ ध्याता कर्मविपाकानामुहिनो भववारिधेः। लोकसंज्ञाविनिर्मुक्तः, शास्त्रदृग् निष्परिग्रहः ॥३॥
व्या०-ध्यातेति । यः समृद्धः स काले विचित्रबिपाकोदये कर्मविपाकामां ज्ञाता च्याता च भवति, अतः कर्मविपाकाष्टकं । यः कर्मविषाकध्यानी स एव भवात् संसारात् उद्विग्नो भवति, अत एव भवोद्वेगाष्टकं । यः भवोद्विग्नः स लोकसंज्ञामुक्तो भवति, तैन लोकसंज्ञात्यागाष्टकं । स एव शास्त्रदृग् च पुनः निष्परिग्रहो भवति । अत एव तत्प्ररूपकाष्टकद्वयं । ( शास्त्राष्टकं परिग्रहाष्टकं च ) ॥३॥ शुद्धानुभववान् योगी, नियागप्रतिपत्तिमान् । भावार्चाध्यानतपसां, भूमिः सर्वनयाश्रितः ॥ ४ ॥ ___ व्या०-शुद्धेति । यः निष्परिग्रहः स एव शुद्धात्मतत्त्वानुभववान् भवति, तेनानुभवाष्टकं । यः स्वरूपानुभवी स एव योगी योगध्यानमयः, यः योगी स एव निश्चयेन कर्मयागकर्ता तत्मरूपकाष्टकद्वयं । स एव भावार्चा भावपूजा तथा ध्यानेन
For Private And Personal Use Only