________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
समासत्ता ममं न जुज्जए रागो अन्नेसु तुब्भंपि न जुज्जए एवं इति उवएसेण पडिबोहियकन्ना एवं रागत्यागः कार्यः तर्हि परिग्रहरागो हि नात्महिताय कदापि ॥ ६॥ चिन्मात्रदीपको गच्छेन्निवीतस्थानसन्निभैः। निःपरिग्रहता स्थैर्य, धर्मोपकरणैरपि ॥ ७ ॥
व्या०-चिन्मात्रेति-अप्रमत्तसाधोः “चिन्मात्रदीपकः" ज्ञानमात्रस्य प्रदीपः “गच्छेत्” लभेत कैः निर्वातस्थानसन्निभैः पवनप्रेरणारहितस्थानसंयोगैः, तथा ज्ञानदीपकस्य 'स्थैर्य स्थिरत्वं निःपरिग्रहता परिग्रहाभाव एव साधयति, इत्युपदिष्टे कश्चित् धर्मोपकरणस्यापि परिग्रहत्वं जानन् तत्परिहाराय यतते, अतः धर्मोपकरणैः अपि स्थैर्य वर्द्धते, इति “धर्मसंग्रहण्यां” सर्वमप्युक्तं शीतातपदंशादिपरीषहोदये स्वाध्यायव्याघाते निःस्पृहत्वेन धर्मोपकरणग्रहणं समाधिस्थिरताहेतुः अमूर्छितस्य न तत्परिग्रहता, नहि पुद्गलजीवयोः एकक्षेत्रावगाहिता परिग्रहः, किंतु चेतनातद्रागद्वेपपरिणतपरिग्रहग्रहत्वं प्राप्नोति, अतः उपकरणानां निमित्तता एव तत्त्वसाधने यथार्हद्गुरुसंसर्गः निमित्तं आत्मनि स्वरूपस्थेन पुद्गलस्कंधाबाधका आत्मैव तदनुगतः बाधकत्वं करोति ॥ ७॥ मूर्छाछन्नधियां सर्व, जगदेव परिग्रहः। मूर्छया रहितानान्तु, जगदेवापरिग्रहः॥८॥
व्या०-छिन्नेति “मूर्छा" ममत्वं तेन ‘छन्ना' छादिता 'धी' बुद्धिः येषां ते तेषां मूर्छामग्नानां स्वकीयतया अप्राप्तमपि सर्व जगत् परिग्रह एव, तेषां स्वामित्वभोगित्वसुखबुद्धेः समन्वितत्वात् तु पुनः मूर्छया रहितानां पुद्गलेषु मिन्नत्वाग्राह्यत्वेन
For Private And Personal Use Only