________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
३६७
अतएव निर्ग्रथा वाचयंति प्रवचनं प्रयच्छंति रहस्यं, परिवर्त्तयंति सूत्रालापकान्, अनुप्रेक्षयंति भावनया तदर्थ, तन्मयीभवंति आगमतत्त्वेषु मग्नाश्वानंदयंति स्वात्मानं, तल्लाभलीलालालितचेतसः कुर्वति धर्मकथां, अनुमोदयंति च महासूरिनिवहं, अतएव योगोपधानक्रियामारचयंति, वसंति यावज्जीवं गुरुकुले शास्त्रावबोधप्रवीणतामिच्छंतः ॥ ८ ॥
इति व्याख्यातं शास्त्राष्टकम् ॥ २४ ॥
अथ परिग्रहाष्टकम् ॥ २५ ॥
परिग्रहग्रहगृहीतस्यानेकोपार्जनसंरक्षणगोपनाविकलचेतनावतः न शास्त्रज्ञानं सम्यग् भवति, अतः परिग्रहत्यागोपदेशमुपदिशति । तत्र परि-समंतात् ग्रहः ग्रहणरूपः परिग्रहः । तत्र द्रव्यतः धनधान्यादि, भावतः परवस्त्विच्छापरिणामः आशंसारूपः, तत्रात्मनः स्वपचामित्वपरिणतेः स्वपर्यायावरणे तदभावात्, अशुद्ध बलवीर्य गृही कर्मविपाकेषु शुभेषु तद्धेतुषु प्रशस्तपरिणामेषु ममकारः परिग्रहः, स्वशुद्धसत्तागुणगणेभ्यः अन्यममकारस्वीकारसंरक्षणापरिणतिरूपा चेतनादिप्रवृत्तिः परिग्रहः, आत्मनः स्वस्वरूपभासनरमणानुभवव्याघातः । अतएव स त्याज्यः । द्रव्यपरिग्रहस्य भावपरिग्रहत्वं संग्रहेण, भाष्ये च, “द्वितीयपंचमाश्रवौ सर्वद्रव्येषु" इति वाक्यात् व्यवहारपरिग्रहः धनादिकयुक्तः, ऋजुसूत्रेण तदभिलाषी, शब्दनयेन पुन्याशंसा इत्यादिना भावनीयं, अतः तदुपदेशः ।
न परावर्त्तते राशे, वक्रतां जातु नोज्झति । परिग्रहग्रहः कोऽयं ? विडम्बितजगत्रयः ॥ १ ॥
१७९
For Private And Personal Use Only