________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शास्त्राष्टकम्
निवारणमहितं, अत्र यथैकस्य शबरस्य जीवद् भौतपदस्पर्शनिवारणं स मयूरपिच्छार्थी भौतं हत्वा पश्चात् स्पर्श चकार, तथा आत्मानं हत्वा षट्जीवनिकायान् रक्षन् तद्वत्करोति, अतो मौढ्यं निवार्य तत्त्वज्ञानवता भवनीय, शुद्धाहारादिकं तनुयोगः स्वरूपावलंबनं महदनुयोगः, इति तेन स्वरूपाचरणमंतरेणाहारस्कंधात्मसाधनबुद्धयः भौतहिंसकवद् ज्ञेयाः ॥ ६॥ अज्ञानाहिमहामन्त्रम्, स्वाच्छन्द्यज्वरलवनम् । धर्मारामसुधाकुल्यां, शास्त्रमाहुमहर्षयः ॥ ७॥ - व्या०-अज्ञानाहीति-'महर्षयः' महामुनीश्वराः अज्ञानमेव 'अहिः' सर्पः तहमने महामंत्र, च पुनः 'स्वाच्छंद्य' स्वेच्छाचारित्वं तदेव ज्वरः तदपगमाय लंघनं 'धर्मारामसुधाकुल्यां' धर्म एव आरामः तस्मिन् 'सुधा' अमृतं तस्य 'कुल्या नीकिः, तां अमृतं शास्त्रं उक्तवंतः, अतः शास्त्राभ्यासः महासुखायेति ॥७॥ शास्त्रोक्ताचारकर्त्ताच, शास्त्रज्ञःशास्त्रदेशकः । शास्त्रैकदृग् महायोगी, प्राप्नोति परमं पदम् ॥८॥
व्या०-शास्त्रोक्तति-एवंविधः महायोगी 'परमं उत्कृष्टं पदं स्थानं पामोति, कथंभूतः 'शास्त्रोक्ताचारकर्ता, शास्त्रे जैनागमे उक्तः य आचारः तस्य कर्ता करणशीलः, 'शास्त्रज्ञः' शास्त्रं स्याद्वादागमं जानातीति शास्त्रज्ञः, पुनः 'शास्त्रदे० शास्त्रस्य देशकः कथकः पुनः कीदृशः ? शास्त्रे एका अद्वितीया रहस्यग्राहिणी हर दृष्टिर्यस्य स इति एवं शास्त्रोक्तमार्गकारी तत्त्वज्ञः तदुपदेशकः परमं उत्कृष्टं पदं प्राप्नोति, अतः सर्वादरेण जैनागमाभ्यासः करणीयः, येन तत्वावाप्तिः निखिलसिद्धिसाधकता,
For Private And Personal Use Only