________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
३५५
हभारभुग्नता भुग्नस्वशक्तिवत्वं युज्यते ? नाहं सशरीरा सपुगला सकर्मा सजन्ममरणा चेतना मम कथमयं महामोहावर्च : १ इत्युद्विग्नाः स्वरूपभासनर मणैकत्वमनोहरं, सम्यग्दर्शनप्रतिष्ठानं क्षांत्यादिधर्माष्टादशशीलांगसहस्रविचित्रफलकनिविडघटनाविराजितं,
सम्यग्ज्ञाननियमकान्वितं सुसाधुसंसर्गकाथसूत्रनिविडबंधनबद्धं, संवरकीलप्रभग्ननिःशेषास्रवद्वारं, सूत्रितसामायिकच्छेदोपस्थापनीयभेदविभिन्नरम्यभूमिकाद्वयं, तदुपकल्पितसाधुसमाचारकरणमंडपं, समंततो गुप्तित्रयप्रस्तरगुप्तं, असंख्यशुभाध्यवसायसन्नद्धदुर्योधं, यो सहस्रदुरवलोक, सर्वतो निवेशित सद्गुरूपदेशवल्लीनिकुरूंबमध्यमवस्थापितस्थिरतरानिशलसद्बोधकूपस्तंभतद्विन्यस्तप्रकृष्टशुभाध्यवसायसितपटं, तदग्रसमारूढप्रौढसदुपयोगपंजरदौवारिकं तदका - द्वाप्रमादनगरनिकरसमायुक्तसर्वांगसंपूर्णतया प्रवहणं चारित्रयानपात्रं, तेन चारित्रमहायानपात्रेण संतरणोपायं कुर्वति ॥ ५ ॥
तैलपात्रधरो यद्वत्, राधावेोद्यतो यथा । क्रियास्वनन्यचित्तः स्याद्, भवभीतस्तथा मुनिः ॥६॥
व्या० - तैलपात्रधर इति - यथा तैलपात्रवरः मरणभयभीतः अप्रमत्तः तिष्ठति, तथा मुनिः स्वगुणवातभयमीतः संसारे अप्रमत्तस्तिष्ठति । यथा केनचित् राज्ञा कंचन पुरुषं लक्षणोपेतं वधाय अनुज्ञापितं, तदा सभाजनैः विज्ञप्तः स्वामि क्षमध्वमपराधं, मा मारय एनं, तेन सम्योक्तेन राज्ञा निंग देतं, यदा महास्थालं तैलपूर्ण सर्वनगरचतुष्पथे अनेक नाटकवा चतूर्याकुले तैलबिंदुमपतंतं सर्वतो भ्रामयित्वा आयाति तदा न मारयामि, यदि च तैलबिंदुपातः तदास्य तस्मिन्नवसरे प्राणापहाः करणीय, इत्युक्तोऽपि स पुरुषस्तत्कार्य स्वीचकार तथैवाने कजनसंकुले मार्गे
१३७
For Private And Personal Use Only