________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
३०९
ध्यानालंबनरूपा चतुष्प्रकारा, मैत्री १ प्रमोदा २ मध्यस्था ३
करुणा ४ । एवं च-
3
मा कार्षीत्कोऽपि पापानि मा च भूत्कोऽपि दुःखितः । मुच्यतां जगदप्येषा, मतिर्मैत्री निगद्यते ॥ १ ॥ अपास्ताशेषदोषाणां वस्तुतच्चावलोकिनाम् । गुणेषु पक्षपातो यः, स प्रमोदः प्रकीर्त्तितः ॥ २ ॥ दीनेष्वार्त्तेषु भीतेषु, याचमानेषु जीवितम् । उपकारपरा बुद्धिः कारुण्यमभिधीयते ॥ ३ ॥ क्रूरकर्मसु निःशंकं, देवतागुरुनिन्दिषु । आत्मशंसिषु योपेक्षा, तन्माध्यस्थ्यमुदीरितम् ॥ ४ ॥
"
इति भावनालक्षणं योगशास्त्रोक्तं । व्यवहारनयेन निश्चयनयेन, सर्वजीवपुलेषु शुभाशुभपरिणतेषु अरक्तद्विष्टतारूपा परिणतिः मध्यस्था सा नामादिभेदतः चतुर्द्धा, तत्र द्रव्यमध्यस्था अनुपयुक्तस्य साध्यसाधनशून्यस्य, भावमध्यस्था मुनेः मध्यस्थपरिणतिः आद्यनयचतुष्टये द्रव्यमध्यमा अंत्यनयत्रये भावमध्यमा साधनकाले साधनारूपा वीतरागस्य सर्वान्यजीवपुद्गलसमूहे न रागो न द्वेषः । एषा सिद्धरूपा उत्सर्गेवंभूतरूपा मध्यमा सा प्रतन्यते-स्थीयतामनुपालम्भं, मध्यस्थेनान्तरात्मना । कुतर्ककर्करक्षेपै - स्त्यज्यतां बालचापलम् ॥ १ ॥
व्या० - स्थीयतामिति - भो उत्तमाः ! बालचापलं बालस्याज्ञस्यैकांताज्ञानरक्तस्य चापल्यं वस्तुस्वरूपानपेक्षिवचनरूपं चापल्यं त्यज्यतां मुच्यतां । कैः ? कुतर्काः कुयुक्तयः ते एव कर्करा उपलाः तेषां क्षेपास्तैः तदा किं कर्त्तव्यमित्याह - मध्यस्थेन राग
१२१
For Private And Personal Use Only