________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका..
३०.७
तस्य कारणं यद्वस्तु तदस्तित्वैतदरूपत्वे भवति न अभिनवपर्यायग्रहणं तर्हि न कार्योत्पत्तिः इदमुक्तं भवति - अभिनवपर्यायग्रहणेनैव कार्यसिद्धिः ।
भूपिंडावायाओ, पिंडो वा सक्करादवायाउ । चक्कमहवा वोपादाणं कारणं तं पि ॥ १ ॥
भूपिंडस्य अपायः शर्करादीनामपायः चक्रादीनां उपपतौ एवमपादानं कारकं कारणं भवति, भूरपादानं पिंडापावेऽपि धवत्वात्, अथवा विवक्षया पिंड: अपादानं तव्रतशर्करादीनामपायोऽपि विवेकेऽपि ब्रुवत्वात् पृथ्वी घटापाया चक्रमाया कोवापादानमिति ।
वसुहा संचकमरूव मिचाई संनिहाणं जं । कुंभस्स तंपि कारणमभावओ तस्स जह सिद्धी ॥ २ ॥
घटस्य चक्रं संनिधानमाधारः, तस्यापि वसुधा, तस्या अन्याकाशमस्य पुनः स्वप्रतिष्टत्वात् स्वरूपमाधारः इत्येवमादि यत्कि - मपि आनंतर्येण परंपरया या संनिधानमाधारो घटस्य विवक्ष्यते तत्सर्वमपि तस्य कारणं तदभावस्य घटस्य यद्यस्मादसिद्धिः, एवमात्मनोऽपि यथा आत्मा कर्त्ता स्वगुणानां स्वस्वज्ञप्तिदृष्टिरमणानुभवलक्षणानां प्रवृत्तिः कार्य ते एव गुणाः सत्तास्था निरावरणाकरणरूपाः तेषामेवोत्पादपरिणतिपर्यायामिनवाविर्भावळक्षणः संप्रदानः । तेषामेव पर्यायाणां ज्ञानादीनां पूर्वपर्यायव्ययलक्षणः अपादानः । आत्मनः असंख्येयप्रदेशरूपस्वक्षेत्रत्वं समस्तगुणपर्यायाणामाधारः इति स्वस्वरूपषट्कारकाणां सर्वकार्यनिष्पत्तिः परिणतानां ज्ञानं सद्विवैकस्तद्विवेकता सर्ववैषम्याभाव इति श्लोकार्थः । अत्रायसायात मुच्यते, कारकता बु आत्मप
११९
For Private And Personal Use Only