________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८४
.. मौनाष्टकम्
मुनेः निग्रंथस्य इदं मौनं, एवेति निर्धारणे तत् सम्यक्त्वं यत् यथाज्ञातं तथाकृतं इति तत् सम्यक्त्वं एव मुनित्वं सम्यक्त्वं वा पुनः सम्यक्त्वं एव मौनं निर्यथत्वं । अत्र यत् शुद्धश्रद्धाननिर्धारितात्मस्वभावः तत्र अवस्थानं चरणं यच्च सम्यग्दर्शनेन निर्धारित सम्यग्ज्ञानेन विभक्तं स्वरूपोपादेयत्वं तच्च तथैव भवति रमणं चरणं गुनित्वं अतः सम्यकश्रद्धागृहीतकरणं तत् एवमूतनयेन सम्यक्त्वं एवंभूतनयेन सम्यग्मुनित्वं सम्यक्स्वरूपं इति ज्ञपरिज्ञापत्याख्यानपरिज्ञाप्राप्तं एवं कार्यसाधकं तेन सम्यक्त्वमुनित्वे अभेदः । सम्यग्दृष्टिभिः यच्चतुर्थगुणस्थानस्थैः साध्यत्वेन धारित तथाकरणे यंत्र मुनिभावे निष्पादितं सिद्धावस्थायां इत्यनेन शुक्रसिद्धत्वस्य धर्मनिर्धारः सम्यक्त्वं । आचारांगे-जं सम्मत्तं पासह तं मोणं पासह जं मोणं पासह तं सम्मत्तं पासह णइ मं सक्कं कामायेरेंहिं पन्नत्तेहिं गारवावसंठेहि, मुणी मोणं समाधाय धुणेकम्मसरीरगं पंतं लुहं च सेविति वीरा सम्मत्तदसिणो" ॥१॥ तथा च पंचास्तिकायेषु जीवः चेतनालक्षणः तत्र स्वीयात्मबकोऽपि विभावग्रस्तोऽपि सत्तयां निर्मलानंदी निर्धारणाय तदाचरणविगमाय मोहहेतु तत् द्रव्यास्रवान् हेयतयोपलक्षितान् हेयतया करोति इति सम्यक्त्वं मुनिस्वरूपम् ॥१॥ आत्मात्मन्येव यच्छुद्धं, जानात्यात्मानमात्मना। सेयं रत्नत्रये ज्ञप्ति-रुच्याचारैकता मुनेः ॥ २ ॥
व्या०-आत्मा इति-अत्र ज्ञानादिगुणानामभेदकरणाभूतानां ज्ञायकत्वकार्यकर्ता आत्मा एव अत्रोपादानरबको कारकचक्रमय एव आत्मा स्वयमेव ऋर्तृकार्गरूपोऽपि पारि पराप्रदानापादानाधिकरणः स्वयमेवेति व्याख्यातं भाध्ये श्रीजिनभद्र
For Private And Personal Use Only