________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
स्थानहेतुपरव्येषु, कुदेवकुगुरुकुधर्मेषु; प्रशस्तो मोक्षमार्गे, सम्यग्दर्शनज्ञानवारित्रतपोहेतुषु सुदेवगुर्वादिषु । तत्र मोहत्याग उत्सर्जनं, भिन्नीकरणं, अत्र यावान् अप्रशस्तमोहस्तावान् सर्वथा त्याज्य एव अशुद्धत्वनिबन्धनत्वात् । प्रशस्तमोहसाधने असाधारणहेतुत्वेन पूर्णतत्त्वनिष्पत्तेः अकि क्रियमाणोऽपि अनुपादेयः। श्रद्धया विभावत्वेनैवावधार्यः। यद्यपि-परावृत्तिस्तथापि अशुद्धपरिणतिरतः साध्ये सर्वमोहपरित्याग एव श्रद्धेय आद्यनयचतुष्टये कर्मवर्गणापुद्गलेषु तद्योगेषु तद्ग्रहणप्रवृत्या सङ्कल्पे कर्मपुद्गलेषु बध्यमानेषु सत्तागतेषु चलोदीरितेषु उदयप्राप्तेषु अशुद्धविभावपरिणामरूपमोहहेतुषु मोहत्वं, शब्दादिनयत्रये मोहपरिणतचेतनापरिणामेषु मिथ्यात्वासंयमप्रशस्ताप्रशस्तरूपेषु मोहत्वं, अत आत्मनः अमिनवकर्महेतुः मोहपरिणामः, मोहेनैव जगद् बर्फ मोहमूढा एवं प्रमन्ति संसारे, यतो ज्ञानादिगुणसुखरोधकेषु च तेषु अनन्तवारं अनन्तजीवैर्भुक्तमुक्तेषु जडेषु अग्राह्येषु पुद्गलेषु मनोज्ञाऽमनोज्ञेषु ग्रहणाग्रहणरूपो विकल्पो मोहोद्भवः, तेनायं पुद्गलासक्तो मोहपरिणत्या पुद्गलानुभवी स्वरूपानवबोधेन मुग्धः परिप्रमति, अतो मोहत्यागो हितः । उक्तं च । आया नाणसहावी, सदसणसीलो विसुद्धसुहरूको। सो संसारे भमई, एसो दोसो खु मोहस्स ॥१॥ जो उ अमुत्ति अंकत्ता,असंग निम्मल सहावपरिणामी सो कम्मकवय बद्धो, दीणो सो मोहवलगत्ते ॥ २ ॥ ही दुकं आयभवं, मोहन पाणमे सई ।। जस्सुदरेणियभावं, सुध संबंपि नो सरई ॥ ३ ॥
-
-
२६
For Private And Personal Use Only