________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००
ज्ञानमंजरी टीका.
-
आत्मनः परभावकर्तृत्वं नास्त्येव । ज्ञायकत्वमेवेति । अतः स्वरूपरसिकानां सर्वभावज्ञायकत्वं कर्तृत्वं स्वपरिणामिकभावस्य । अतः स्वात्मानं एकांते निवेश्य, अनादिनांतिजं परभावकर्तृत्वभोकृत्व-ग्राहकत्वादिकं निवारणीयम् , अखंडानंदकर्तृत्वादिकंकरणीयं इति गाथार्थः ॥३॥ परब्रह्मणि मनस्य, श्लथा पौद्गलिकी कथा। कामी चामीकरोन्मादाः,स्फारा दारादराःक्क च?॥४
परब्रह्मणीति । परब्रह्मणि परमात्मनि मनस्य तन्मयस्य स्वरूपावलोकनरमणरक्तस्य, पौगलिकी पुद्गलसंबंधिनी, कथा नाम वार्ता, 'श्लथा' शिथिला इत्यर्थः । परत्वेन अग्राह्यत्वेन अमोग्यत्वेन निर्धारात् यस्य कथापि श्लथा तस्य ग्रहः कुतो भवति ?। अत एव अमी चामीकरोन्मादाः तस्य व शुद्धात्मगुणसंपद्वतां चामीकरग्रह एव न परत्वात् , पापस्थानहेतुत्वात् कुत उन्मादः ? । च पुनः स्फारा देदीप्यमाना दारा वनिता तस्या आदराः क ? इति कुतः, नैवेति । स्वभावसुखभोगिनां पौद्गलिकभोग एव न, तर्हि मोघा कुरागपटी अशुद्धविभावनटी दाराकटी; तत्रादरः कथं भवति ? नैवेति । इति गाथार्थः ॥ ४॥ तेजोलेश्याविवृद्धिर्या, साधोः पर्यायवृद्धितः । भाषिता भगवत्पादैः, सेत्थंभूतस्य युज्यते ॥५॥
तेजोलेश्या इति । तेजलेश्या चित्तसुखलाभलक्षणा ज्ञानानंदास्वादाश्लेषरूपा तस्या विवृद्धिः विशेषतः वर्षना, साधोः निग्रंथस्य, पर्यायवृद्धितः चारित्रपर्यायविवृद्धितः, भगवत्पादैः भान
For Private And Personal Use Only