________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(६६ ) यात्मोपयोगै निखिलक्रियाणा
माचारतो धर्म उदेति पूर्णः । आत्माऽनुसारं मनसः प्रवृत्त्या,
भवेद्विशुद्धोऽतितरां तदाऽऽत्मा ॥८१ ॥ पूर्णों भवेञ्चेन्मनसो विकाश__ स्तदा नवेदाऽऽत्ममहाविकाशः। मनोविकाशाय हि निश्चितं त्वं,
प्राप्तिं च जानीहि निजेन्द्रियाणाम् ॥८२ ॥ दयां च दानं च दमं कुरुष्व,
तथाऽऽत्मशक्तीः सहसा लभस्व । लब्ध्वाऽऽत्मशक्तीः कुरु धर्मकार्य
निजाऽऽत्ममुक्तिं च कुरु प्रकामम् ॥८३ ॥ चित्तेन्द्रियशरीरैर्हि, आत्मा पूर्णः प्रकाशते। वानकायसंयोग-आत्मयोगस्तु तबलात् ॥ ८॥ ब्रह्मचय्र्वपुर्वीर्य, लब्ध्वा धैर्य प्रकाशय । यात्मशक्तिरनन्ताऽस्ति, कायशक्त्या प्रकाशते ॥८५॥ नीरोगं रक्ष कायं तद्, योगियोग्यो भविष्यसि । रक्ष चौषधिवायुभ्यां, योग्यसात्त्विकनोजनैः ॥ ८६ ॥ अमूल्यं च वपुर्ज्ञात्वा, धर्माऽर्थ देहयोग्यता । वाचा सारं स जानाति, आत्मशक्तिं समश्नुते ॥८७॥
For Private And Personal Use Only