________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ६१ )
सेवमाना जगज्जैना एवं देवा भवन्ति हि । भोग्यपि भोगतो भिन्नो, वीतरागस्स जायते ॥ ५१ ॥ वर्त्तन्ते समभावेन मत्समास्ते नरास्त्रियः । साम्यं च जैनधर्मोऽस्ति तदाप्नुहि सुदर्शने ॥ ५२ ॥ जीवनं वह सद्वृत्त्या जैनधर्मः स्थिरः समः । पवित्रं जीवनं येषां मद्भेदं ते न विन्दते ॥ ५३ ॥ सर्ववर्णा नरानाय्र्य स्त्यागावस्थाऽधिकारिणः । सर्वकामविनाशेन त्यागावस्थागुणाः खलु ॥ ५४ ॥ स्वातन्त्र्यं चान्तरत्यागै र्दासत्वं जडमाहतः । नृपेभ्यस्त्यागिनः श्रेष्ठास्तदधः सर्वजीवनम् ॥ ५५ ॥ त्यागोऽस्ति यद्यदंशेन, वैराग्यं तत्तदंशतः । वैराग्येनाऽऽत्मरागोऽस्ति जागृह्यन्तः सुदर्शने ॥ ५६ ॥ कामाशाबन्धना दुःखं कामाशाविरहात्सुखं । कामाशात्यजनं त्यागो, वेत्ति जाग्यनिधिः पुमान् ५७ निर्ग्रन्थास्त्यागिनः सौख्य, - भाजः संन्यासिनस्तथा । देशादिप्रतिबन्धो न तेषां न ममतालवः ॥ ५८ ॥ यद्रागो न जडे कश्चि तच्यागः शुन आन्तरः । यो जागssत्मभावेन योगी सोऽस्ति सुदर्शने ॥ ५९ ॥ द्वेषो जडे नाऽस्ति शुभाशुभो वा क्लेशो न तेषां हृदि कश्चिदस्ति ।
For Private And Personal Use Only