________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४१) ज्ञानानन्दमयः परात्परतरः साऽऽत्माऽस्ति देहस्थितः जीवो वेत्ति न तं वधप्रभृतिभिस्सत्यं सुखं मन्यते ९७ आत्मा नश्येन्नैव कालत्रयेऽपि पर्याया ये पुद्गलानां जडानां । नानारूपैस्ते भवन्ति प्रकामं पश्चात्पश्चात्ते च नष्टा नवन्ति ॥ ॥९ ॥ जाताःप्रागृषभादयो जिनवराः पूर्व त्रयोविंशतिः ते वै केवलबोधतो जगदिदं जाग्रत्तरं चक्रिरे। दीक्षां प्राप्य तथाऽहमप्यथ सखे श्रीकेवलज्ञानतः अज्ञानाच्छयनाद्धि जागृततरं विश्वं करिष्ये ध्रुवम् ॥९९ दृश्याजडा ये जगतः पदार्था याता न यास्यन्ति स मंच कश्चित् तदत्र दृश्ये हि पदार्थमात्रे मोहो विधेयो भवता न बन्धो
॥१०॥ स्याच्छातावेदनं पुण्यैः पुण्यं पुण्येनकर्मणा । अशातावेदनं पापैः पापं पापेनकर्मणा ॥१०१ ॥ पूर्वमासन्पदार्था ये तेनासन्वर्त्तमानवत् । अद्य ये चापि दृश्यन्ते, ते भविष्ये न भाविनः॥१०२॥ जगत्पदार्थाः क्षणिका अनित्याः संसारमध्ये शरणं न किञ्चित् ।
For Private And Personal Use Only