________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४०) उत्तारिता ये नहि चाऽन्यदेव मद्भक्तितस्ते भव मुत्तरन्ति
॥ ९२ ॥ आत्मकर्म विविदुः प्रजागणा, नन्दिवर्धनसुदर्शनादयः ॥ शान्तिमापुरवधूय हृच्छुचं । ज्ञानतः प्रभुमथो प्रतुष्टुवुः
॥ ९३ ॥ दृष्टान्तै देशभिस्तु दुर्लभतरं लब्ध्वा भवं मानवं ज्ञानाद्याऽऽत्मगुणप्रशोधनकृते संसाध्यतां पौरुषम् ॥ वारम्वारमयं न मानवभव स्संजायते देहिनाम् , दृष्टान्ते मधुबिन्दुतुल्यविषये नो मोहनीयं त्वया ९४ अनादिकाला न्मनुजादिकानां देहाश्च भूताश्च तथा भवन्ति ॥ मृदादितो ये प्रभवन्ति देहा । स्ते मृत्तिकायेषु हि संविशन्ति । ॥९५॥ लोको जन्मजरामृतिप्रतिभि दुःखैरलं पूरितः नोपारं विषयप्रभूतसुखतत्तृष्णामहावारिधेः । आत्मज्ञानविरक्तिताभिरथ यो जागर्ति नो तन्मृतिः, यो शेते पुनरत्र मोहविषये तज्जन्ममृत्यू ध्रुवम् ९६ आगारोमम मेधनं परिजनो राज्यं च देशश्चमे एतादृग् ममताभिरत्र भुवने बद्धोऽस्ति रागद्विषोः,
For Private And Personal Use Only