________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
"
( १४ ) वर्त्तताऽऽत्मोपयोगेन, जोगेतु योग आन्तरः । विनाऽऽसक्तिं प्रभुंप्राप्य, प्रजाजीवनमुत्तमम् ॥ २० ॥ सेवते त्यागिनः प्रीत्या, आत्मानः सत्तयाजिनाः । विज्ञायाऽर्हत्पदं याति दूरीभूय च पापतः ॥ २१ ॥ ब्राह्मणाः क्षत्रिया वैश्या, शूद्रास्स्वस्वक्रियापराः । स्वस्वगुणाश्रयास्तेस्युः प्रजात्वशक्तिधारकाः ॥ २२ ॥ पशुपक्ष्यादिकेष्वात्म-, बुद्धिं धारयति प्रजा । सर्वविश्वजनैः सार्द्ध, सभक्तिश्चाऽऽत्मशुद्धिमान् ॥ २३ ॥ आत्मशुद्धिकृते कर्म, राज्यमप्याऽऽत्मशुद्धये । प्रजा एवं च जानाति, तत्रराष्ट्रसमुन्नतिः ॥ २४ ॥ हिंसाऽऽदिकचुरात्यागो, व्यभिचारस्य वर्जनम् । रिक्तप्राणा च धर्मार्थ, प्रजा तु तादृशी शुजा ॥ २५॥ सद्गुणायाऽस्ति साम्राज्यं, सद्गुणाय क्रियाऽखिला; प्रजाजानाति या चैवं, तस्याः राष्ट्रतनुर्बली ॥२६॥ धर्मार्थ मर्पयेत्प्राणा, प्रजा चैवं गुणालयः । न दुष्टप्रजया वञ्च्या, धर्म्ययुद्धेन शोजना ॥ २७ ॥ जीवच्छतीस्तुताः याति, सर्वशच्या न गर्विणी । चतुर्वर्णा गुणैः काय्यै, व्र्व्यक्तभावेन तत्रते ॥ २८ ॥ प्रजासंघसमुत्क्रान्ती, र्यान्ति ते श्रद्धयामम । प्रजासंघस्तु सत्काय्यै, र्बलं जवति कार्यतः ॥ २९ ॥
For Private And Personal Use Only