________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संघकर्त्तव्यग्रन्थः
ईशो जिनो महावीरः संघधर्म मुपादिशत् । संघो ज्ञानक्रियाभ्यां सोऽनन्ततीर्थात्मको मतः ॥१॥ संघोहिजङ्गम स्तीर्थः प्रणमन्ति तमीश्वरम् । गङ्गातोऽपि महागङ्गा, सर्वधर्माकरो यतः ॥२॥ साधुसाध्वीगणश्राद्ध-श्रावकश्राविकान्वितः । संघो ज्ञेय श्चतुर्वर्णी, मुक्ति स्तंपूजयेन्नमेत् ॥३॥ तीर्थकरसमः संघः सर्वतीर्था स्तदन्तरे। सवाचैव प्रभोरर्चा, देवाः संघे सति ध्रुवम् ॥ ४॥ सङ्घार्चेव प्रभोरर्चा, न शक्तिः काऽपितत्समा ।। जैनधर्म सजानाति, वर्द्धयत्याऽऽत्मगौरवम् ॥५॥ संघाज्ञायां ममाज्ञाऽपि, विशत्येतन्निबोधत । क्षेत्रकालानुसारेण, यत्कुर्यात् मत्समंचतत् ॥६॥ यक्षेत्रेयत्र कालेवा, धर्मः स्याद्याश्चतक्रियाः। संघाज्ञयाचताः सन्ति, मदाज्ञायांच मान्ति ताः॥७॥ यत्कर्म संघवृष्ट्यर्थ, सर्वे धर्मा स्तदन्तरे । विशन्ति संघसेवासु, तपस्यायमसंयमाः ॥८॥ निर्जरानन्तपुण्यंच, संघसाहाय्यदानतः।। व्रतंविनाऽपि संघस्य, देवोऽसौ सेवया भवेत् ॥.९ ॥
For Private And Personal Use Only