________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( १३७ )
साहाय्य मारोहिजनाय दत्ते, सहायकः स्याच्च यतस्ततोऽपि । देशेषु खण्डेष्वखिलेषु गत्वा, ध्यानं तथा मे हृदये करोति निजाSSत्मशुद्ध कुरुते प्रयासं, स्यादाऽऽत्मनः स्वानुभवे प्रकाशः । दूरं विदध्यादपि दोषिदोषान्गुणानुरागे स्वगुणप्रकाशी सम्मानयेद्यो जगदाऽऽत्मतुल्यं, निजः परो वेति भवेन्न मोहः । बभूव येषां जगदाऽऽत्मतुल्यं, तेषां प्रणेशुवबन्धनानि यो जीवति स्वाऽऽत्मविनोदतो वा, सर्व प्रकुर्वन्नपि नो करोति । सिद्धश्च बुद्धश्च भवेत्पराऽऽत्मा, • प्रयाति स स्वाऽखिलकर्मपारम् ईदृग्विधा त्यागिदशा यतोऽस्ति, पले पले सम्भवति स्वमुक्तिः । संत्याग एकोऽस्ति समप्रभूमी, सत्यप्रकाशं सहसा विधातुम्
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ६७६ ॥
॥ ६७७ ॥
॥ ६७८ ॥
41
॥६७२॥
॥ ६८० ॥