________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३६ ) समाजदेशादिहितक्रियायां,
व्यापारणीयं तु सदा स्वचित्तम् । परोपकारो निजसर्वयोगै
रेतत्कृते त्यागिजनाऽवतारः ॥ ६७१ ॥ न त्यागिनां केऽपि भवन्ति दोषा___स्ते रागरोषे न भवन्ति बद्धाः । थायुःक्षये मुक्तिरथाऽस्ति तेषां,
स्यात्यागिनां स्वानुभवः प्रमाणम् ॥६७२ ॥ सत्यागिनो मत्सदृशोत्तमास्ते,
तेषां पुरोऽन्ये तु भवन्त्यधःस्थाः। न त्यागिनां स्यान्ममतालवश्चे- स्यात्तर्हि नो संयमरागवृत्तिः ॥ ६७३ ॥ हस्ता मदीयाः खलु येषु सन्ति, __ तत्त्यागिनां हस्ततलेऽस्ति मुक्तिः । कार्यासुखाऽऽशा न जमेषु काचिद्,
सत्या सुखाशा विषयेषु नास्ति ॥ ६७४॥ आत्मा त्वयं सौख्यरसाब्धिपूर्णः,
शूरस्तथाऽसौ बहुशक्तितोऽस्ति । तद्रागिणस्त्यागिजनाश्च सन्ताः,
शान्ताश्च दान्ताश्च महामहान्तः ॥६७५॥
For Private And Personal Use Only