________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १०८ )
दुग्धाज्यवदहं व्याप्तः, काष्ठे वह्निर्यथा तनौ । विश्वस्मिन्सत्तया ज्ञात्वा, भजध्वं मां नराः स्त्रियः ॥ ४६४॥ नामरूपादिभिन्नोऽहं, महावीरो जिनेश्वरः । स्वाऽऽत्मानं वेत्ति यश्चैवं स शान्ति सुखमश्नुते ॥ ४६५॥
मन्त्रान्त्या चतुर्दिक्षु, कुर्वन्नाशामनेकशः । न तिष्ठति जनप्रातः, पारंमच्छ्रद्धया व्रजेत् ॥ ६६६ ॥ श्रद्धया मम योऽतिष्ठ - देहनावात्स वै मृतः । अजीवदाऽऽत्मरूपेण, भूत्वा स मृतजीवनः ॥४६७॥ नित्याऽऽत्मानो यतो जैना-न म्रियन्तेऽपि मारिताः । देहप्राणा विनश्यन्ति, चाऽऽत्मा न म्रियते स्वतः ।।४६८॥ यन्नाऽऽत्मा म्रियते सत्यं तत्कृत्यं विद्धि भावतः । निश्चयान्म्रियते नाऽऽत्मा, तज्ज्ञस्तु सत्यकर्मवान् ॥ ४६९ ॥ अविनाशी त्रिकालेऽपि सोऽनन्ताऽऽनन्दबोधवान् । हन्यते पञ्चभूतैर्न, वेत्ति यः सच निर्भयः ॥ ४७० ॥ आत्मानं कोऽपि नो हन्ति, चाऽऽत्मानं कोऽपि नाऽऽहरेत् । नाऽऽत्मनो जन्ममृत्यू स्तः, कर्ता हर्ता स्वयं हि सः॥ ४७१ ॥ आत्मा जैनो जिनो ब्रह्मा, हरो विष्णुर्महाँश्च सः । मद्धर्मास्त्वाऽऽत्मपर्यायाः सर्वे धर्मा इह स्थिराः ॥४७२ ॥ रूप्यरूप्ययमाऽऽत्माऽस्ति, गुरुदेवस्वरूपकः । आत्मनो जैनधर्मे तु सर्वे धर्माः प्रमान्ति हि ॥४७३ ॥
"
For Private And Personal Use Only