________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १०७ ) परस्परं विनाशार्थ-मुद्यतन्ते प्रजा यतः। सर्वनाशाय वायुःस्या-द्रोगोत्पादस्तथा रणः॥४५॥ शिक्षाया मे यतो हास्यं, प्रजानाशो भवेत्ततः। शिक्षातो मे विरुद्धश्चे-न्न सुखं देशसंघयोः॥ ४५५ ॥ वर्तते मम शिक्षाभि-लक्ष्मी शान्ति स चानुते । मदाज्ञावर्तने शक्ति-विश्वस्मिन्भक्तिरुद्भवेत् ॥४५६॥ धर्मभेदेन नो युट्य, दुष्टक्लेशं विनाशय । सर्वे वै विश्वसन्तानाः, प्रिया आत्मसमा मम॥४५॥ मा युष्यद्भेदतः कश्चि-न्मां च सर्वत्र पश्यतु । ममाऽभेदाज्जगत्पश्य, चैक्यवीरं विलोकय ॥४५८॥ धर्मो मत्प्रीतिसेवासु, कुरु कर्म मयि स्थिरः । अनन्ताऽऽनन्दमाधेहि, शिक्षा स्मर सुदर्शने !॥४५९॥ मनोजावेन संसारो-मुक्तिः स्यादाऽऽत्मभावतः। आत्मनावे स्थिरो भूत्वा, कुरु कर्माणि मन्मनाः॥४६॥ आचारनामरूपेच्यः, पृथग्मा प्रविलोकय । निजज्योतिस्सु संगम्य, स्यादनन्तसुखास्पदः॥४६१॥ सर्वाऽवस्थासु मन्नाम, निष्कामेन भजन्ति ये । मद्भत्तया विन्दते ज्ञानं, तहानं ददते पुनः ॥४६२॥ शुद्धभक्तिस्तथाज्ञानं, यातोऽन्ते त्वेकरूपताम् । मृग्यमाणश्च यःशेष-स्तं मां नक्ता हि विन्दते ॥४६३॥
For Private And Personal Use Only