________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
★__
_
_
_
४ श्रीसंभवनाथ
स्तोत्रादि
भुवि शं भवतां दधत्स्वयं परशंभूत्युचितं पदं हि यः । विजितारिजितारिवंशजो जयदः स्ताद्भविनां स शम्भवः ॥१॥ सहजातिशयाश्चतुर्मिता भुवने यस्य सुखाकराः स्मृताः । सुपवित्रचरित्रसंभवा भविकं नस्तनुतां स शम्भवः ॥२॥ विततातिशयाः श्रिये सतां नवकैकादशकर्मघातजाः । भुवनोपकृतैकसत्फलाः प्रणुताश्चित्रपदानि शभ्भवः ॥३॥ विशदातिशयाः सुरादिताजिनपैकोनविंशतिस्तव । प्रभुतातिशयातिभाविनः प्रणुताः सौख्यविशेषपोषकाः ॥४॥ एवं शम्भवदेवः स्तुतः स्वरसतस्तनोतु जयराज्यम् । गुरुहर्षविनयसूरिह भविनां वरधर्महंसरसः ॥५॥
For Private And Personal Use Only