________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(कुन्द किरण शशि ऊजलौरे देवा अनयारीत्या सोरठ रागेण गीयतें )
क्रियते सुतरां मित्रता रे जीवा, मुक्तिकमलया साकं रे । केवलमाल्या द्वारतो रे जीवा - स्तर्हि वरं चास्माकं रे ॥१॥
यदि भवतां हृदि वर्त्तते रे जीवा, अभिरामोऽयं विमर्शो रे । परमाध्यात्म निबन्धनं रे जीवा, विनिहत कुगतिस्पर्शो रे ॥२॥ विहितजितारिसेनामुदो रे जीवाः, कनकसमानाङ्गरुचो रे ! तुरगाङ्कितपदजलरुहो रे जीवाः, कुशल फलद वारिमुचो रे ॥३॥ वशविधये तस्याः पुरा रे जीवा - स्तर्हि सदा सत्स्मरणं रे । अस्य संभव तीर्थेशितू रे जीवा, उररीकुरुत सुखकरणं रे ॥४॥ सुवशीकरणे त्रिजगतां रे जीवा, निरुपम मन्त्रसमानं रे । अकुशल जलरुहमहिमसमं रे जीवा, अगणितहिमनिधानं रे ॥५॥ परमौषधसाधारणे रे जीवा, कर्म्मरुजां संहरणे रे । अस्य जिनाधिपतेः सदा रे जीवा, वसतु ममात्मा शरणे रे ॥६॥ (कलश:) लोकालोकविलोकनैक सुविधौ विज्ञानसल्लोचनो, मन्दानन्दघन द्रुमौघजलदोऽयं संभवेशो जिनः । इत्थं वाचकपुण्यशीलगणिना भक्त्या मुदाभिष्टुतो, भूयाद् भूरिविभूतये च भवतां भव्यात्मनां प्राणिनाम् ||७||
*
For Private And Personal Use Only
४५